________________
प्रतिष्ठितप्रकरणम् १.
(३)
बुद्धिं वो नरपक्षिणो द्विचरणा यच्छंतु हस्त्यादयो माहा - त्म्यं च चतुष्पदा रतिसुखं भृंगादयः षट्पदाः ॥ उत्साहं शरभादयोऽष्टचरणाः खर्जूरकाद्यास्तथा श्रेयोऽनेकपदा महान्तमपदा भोगं भुजंगादयः ॥ २ ॥
॥ टीका ॥
चतुर्भुज इत्यमरः । स्वामिकार्तिकेयो जगत्प्रलयकारि तारकदैत्योपघातकत्वेन सर्वेभ्योप्यतिशायिबलत्वाद्विनायको विघ्नेशः सकलविघ्नविघातकत्वात्सर्वदेवार्च्य वाचै-तयोर्नमस्कृतिः। पुनःकाभ्यो लक्ष्मीभवानीपथिदेवताभ्यइति लक्ष्मीर्विष्णुप्रिया सर्वत्र प्रसिद्धा तदर्थमेव सर्वेषां प्रवृत्तेः । भवानी शक्तिः । सर्वेषां समीहितार्थदात्री | पार्थदेवतास्तत्तत्पंथानमाश्रित्यः स्थिता देवतास्ताभ्यः नृणां तत्तदेशोद्भवपापनिवारकत्वेन सर्वेषां सुखदातृत्वादासांनमस्कृतिः हेतुगर्भितविशेषणादेव सावित्र्यास्तु लोके प्रसिद्धेरभावात्तदुपादानं लक्ष्मीश्च भवानी च पथिदेवताश्च इतरेतरद्वंद्वः । पुनः केभ्यो नवभ्यो ग्रहेम्य: सूर्यादिनवभ्यो ग्रहेभ्यः इत्यदृष्टानुसारेण जनानां सुखदुःखदातृत्वेनैतेभ्यो नमस्कारस्य सर्वथौचित्यं भवतीति काव्यार्थः । वा सुखदुःखयोरेतदधीनत्वेन परंपरया नृणामपि तदधीनत्वख्यापनार्थं सर्वेति सर्वदेवनमस्कार इत्यर्थः । अत्रापिशब्दो न्यूनतावाची तेन समग्रस्येत्यर्थः । न तदंतर्भूतानामन्यतमस्येति तात्पर्यार्थः ॥ १ ॥ येषां शकुनानि अग्रे कथयिष्यते ॥ किंचित्प्रार्थनाद्वारेण तान्प्रकटीकुर्वन्नाह || बुद्धिमिति ॥ अस्यार्थः ॥ नरपक्षिणः नराश्च पक्षिणश्च नरपक्षिणः इतरेतरद्वंद्वः मनुष्यपक्षिण इत्यर्थः वः युष्माकं बुद्धिं तथाविधां प्रतिभां यच्छंतु ददतु इत्यन्वयः । कीदृशाः नरपक्षिणो द्विचरणाः । द्वौ चरणौ क्रमौ येषां ते द्विचरणाः नरेषु सचिवादिषु वयःसु च शुकसारिकाहंसादिषु प्रतिभाप्रकर्षणस्य शास्त्रे श्रूयमाणत्वात्प्रत्यक्षेणापि दृश्यमानत्वाच्चैतत्प्रार्थनं युक्तमेव तथा हस्त्या॥ भाषा ॥
कार्त्तिक, और विनायक जो गणेशजी इनके अर्थ नमस्कार हो. और लक्ष्मीजी, और भवानीजी, पार्वतीजी, और मार्गमें आश्रय लेकरके स्थित जो मार्गदेवता, तिनके अर्थ नमस्कार हो. और प्रारब्धके अनुसारकरके मनुष्यनकूं सुखदुःखकूं देवेवारे सूर्यादि नवग्रह तिनके अर्थ नमस्कार हो. ॥ १ ॥ जिनके शकुन अगाडी कहेंगे तिनकूं कछुक प्रार्थनाद्वारा प्रगट करत कहे है | बुद्धिमिति ॥ दोय चरण जिनके ऐसे
जे
मनुष्य और पक्षी ते तुमकूं बुद्धि दो;
Aho! Shrutgyanam
और चार