________________
(४२८) वसंतराजशाकुन-अष्टादशो वर्गः।
यथावदुक्तान्यधिवासानानि बलिप्रदानानि शुनोऽधना तु ॥ तस्यैव चेष्टाफलमीप्सितेषु राज्यादिकार्येषु निरूपयामः॥ ॥ १६॥ कंडूयमानः खलु दक्षिणेन करेण लाभं भषणो ददाति ॥ प्रभावनंम्रीकृतराजचक्रं राज्याभिषेकं वरपट्टबन्धम् ॥ १७ ॥ करेण कंडूयति दक्षिणेन यक्षो यदा वामकरं तदानीम् ॥ प्रभूतमातङ्गघटासमृद्धं ब्रूते समंतात्पृथिवीपतित्वम् ॥ १८॥
॥ टीका ॥
एवंविधं कार्य भावि न वेति चित्ते मनसि निवेश्य स्थापयित्वा विचित्येति यावत् । भषणं विमुंचेत् । पिंडं संभक्ष्य स्थिरतां गतस्य निराकुलतां प्राप्तस्य तस्य शुनः चेष्टादिकं निरूपणीयं विलोकनीयम् ॥ १५॥
इति वसंतराजटीकायां श्वचेष्टितेधिवासनप्रकरणं प्रथमम् ॥ १॥ __यथेति ॥ मया शुनः अधिवासनानि बलिप्रदानानि यथावदुक्तानि । अधुना तु ईप्सितेषुराज्यादिकार्येषु तस्यैव शुन एव चेष्टादिकं फलं निरूपयामःकथयामः॥१६॥ कंड्यमान इति ॥ दक्षिणेन करेण अपसव्येन हस्तेन कंडूयमानः कडात कुर्वाण: भषणः लाभमधिकं फलं ददाति । कीदृशं लाभं राज्याभिषेकं राज्यस्याभिषेको यस्मिन । पुनः कीदृशं वरपट्टबंधं वरःप्रधानः पट्टबन्धों यस्मिंस्तत् पुनः कीदृशं प्रभावनम्रीकृतराजचक्र प्रभावेण नम्रीकृतं राजचक्रं यत्र तत्तथा ॥१७॥ करणेति ॥ यक्षः श्वा दक्षिणेन करेण यदा वामकरं कंडयति तदानीं समंता.
॥ भाषा ॥
विचार करके श्वानकू छोड़दे वो बलिपिंड भक्षण करके स्थिर होय जाय वाकी चेष्टादिक देखनो ॥ १५ ॥ इति श्रीवसंतराजभाषाटीकायां श्वानचेष्टितेऽधिवासनप्रकरणं प्रथमम् ॥१॥
यथेति ॥ मैंने श्वानके अधिवासन बलिदान ये यथायोग्य कहे. अब वांछित राज्यादिफ कार्यमें श्वानके चेष्टादिकनके फल कहेहैं ॥ १६ ॥ कंड्रयमान इति ॥ जो श्वान जेमने हाथ करके खुजावतो होय तो: राज्याभिषेक जामें और पट्टबंधन जामें और प्रभाव करके नम्र किये हैं राजानको समूह जामें ऐसो लाभ देवै ॥ १७ ॥ करणेति ॥ जो
| Aho ! Shrutgyanam