________________
(४१०) वसंतराजशाकुने-सप्तदशो वर्गः। प्रभातकाले ककभि प्रतीच्यामाचार्यवर्यः समुपैत्यपूर्वः । शांतिर्दिनस्य प्रहरप्रदेशे पल्लीरुते मध्यदिनेऽर्थहानिः॥ ॥१४॥ आयाति रौद्रः पुरुषोऽपराहे कुमारिकाभ्येति विकालकाले ॥ भुजिक्रियायां नृपतिप्रसादः पल्लीरुते वह्निभयं प्रदोषे ॥ १५॥ यामे द्वितीये पृथिवीशवार्ता निधानलाभः प्रहरे तृतीये ॥ स्यात्कुडयमत्स्ये रटति प्रतीच्यां निशावसाने वपुषोऽवसानम् ॥१६॥
॥ टीका ॥
स्यात् । तृतीयप्रहरे कृतस्वरायां पल्लयां मृत्युर्मरणं स्यात् । चतर्थे प्रहरे कृतस्वरायां गृहगोधिकायां व्याधिः स्यादिति प्रत्येकं संबध्यते ॥१३॥ प्रभातकाले इति ।। प्रभातकाले प्रतीच्या पश्चिमायां ककुभि दिशि पल्लीरुते अपूर्वः आचार्यवर्यः समुपैति । दिनस्य आद्यप्रहरे प्रदेशे शांतिर्भवति । मध्यदिने पल्लीरुतेऽर्थहानिः स्यात् ॥ १४ ॥ आयातीति ॥ अपराह्न पल्लीरुते रौद्रः पुरुषः आयाति । विकालकाले च पल्लीरुते कुमारिकाभ्येति। "दिनावसानमुत्सूरो विकालशवलावपि" इति हैमः।तथा भुजिक्रियायां भोजनकाले पल्लीरुते नृपतिप्रसादः स्यात्। प्रदोषेरजनामुखे पल्लीरुते वह्निभयं भवति । प्रदोषप्रथमप्रहरे रजन्या इत्यर्थः प्रदोषो यामिनीमुखम्' इति हैमः ॥१५॥ यामे इति ॥ निशाया द्वितीये यामे कुडयमत्स्ये प्रतीच्या रटति सति पृथिवीशवार्ता स्यात् । तथा तृतीये प्रहरे कुडयमत्स्ये पश्चि
॥ भाषा॥
होय. तीसरे प्रहरम नैर्ऋत्यमें बोले तो मृत्यु होय. चौथे प्रहरमें नैर्ऋत्यकोणमें बोले तो व्याधि होय ॥ १३ ॥ प्रभातेति ॥ प्रभातकालमें पश्चिमदिशामें पल्ली बोले तो अपूर्व आचार्यनमें श्रेष्ठ आवै दिनके प्रथम प्रहरमें पश्चिममें बोले तो शान्ति होय. दूसरे प्रहरमें पश्चिममें बोले तो अर्थकी हानि होय ॥ १४॥ आयातीति ॥ तीसरे प्रहरमें पश्चिममें वोले तो कोई क्रूर पुरुष आवे. चौथे प्रहरमें पश्चिममें बोले तो कुमारिका आवे भोजन. कालमें पश्चिममें बोले तो राजाको अनुग्रह होय. प्रदोषकालमें पश्चिममें बोलें तौ अग्निका भय होय. प्रदोष नाम रात्रिके प्रथम प्रहर कोई है ॥ १५॥ यामे इति ॥रात्रिके दूसरे प्रहरमें पश्चिमने बोले तो राजाकी वार्ता होय. और तीसरे प्रहरमें पश्चिममें बोले तो धनको
Aho ! Shrutgyanam