________________
(३९२) वसंतराजशाकुने चतुर्दशो वर्गः। एकोऽपि दृष्टः सरटः संदेव निहति कार्याणि समीहितानि ॥ यदि द्वितीयो यदि वा तृतीयो दृश्येत तत्स्यादनजीवनाशः ॥ ३७॥ कुर्वति ह्युच्चैरधिरुह्य चेष्टां स्नानेन शुद्धिः सरटं निरीक्ष्य॥ पतत्यकस्मात्तु स यस्य मूर्ध्नि शिवाय तस्याद्भुतशांतिरुक्ता ॥३८॥ कीर्तनेक्षणरवा नकुलानां साधयंति करणीयमशेषम् ॥ दक्षिणेन नखिनामपि चैषां श्रेयसी खलु गतिविषमाणाम् ॥३९॥
॥ इति कृकलासनकुलौः ॥
॥ टीका ॥
एकोऽपीति ॥ एकोऽपि सरटो दृष्टः सन् सदैव कार्याणि समीहितानि निहंति । यदि द्वितीयः यदि वा तृतीयो दृश्येत तदा धनजीवनाशः स्यात् ॥३७॥ कुर्वतीति ॥ उच्चैः अधिरुह्य यदि चेष्टां कुर्वन्ति तदा सरटं निरीक्ष्य स्नानेन शुद्धिः कथिता स सरटः अकस्माद्यस्य मूर्द्धनि पतति तस्य शिवायाऽद्भुतशांतिरुक्ता ॥३८॥ कर्तनेति ॥ नकुलानां कीर्तनेक्षणरवा अशेषं करणीयं साधयंति खलु निश्चयेन नखिनामपि चैषां विषमाणां श्रेयसी गतिर्भवति तदुक्तमन्यत्र “नकुलानामपि धन्यं विषमाणां प्रदक्षिणं गतं यातुः" इति ॥ ३९ ॥
॥इति कृकलास नकुलौः॥
- ॥भाषा ॥ जो दक्षिणभागमें शशक आवे तो सेनाधिपतिके हाथ भी नहीं आवे ॥ ३६॥
॥ इति शशकादय ॥
एकोपीति ॥ सरट जो किरकेटा जो एक भी दीखै तो सबकार्य नाश करे. जो दूसरो तीसरो. दीखै तो धन जीवको नाश करे ॥ ३७॥ कुर्वतीति ॥ ऊंचपै चढकें चेष्टा करतो होय तो वाकू देख करके स्नान करे तो शुद्धि होय. वो किरकेटा अकस्मात् जाके मस्तकपै गिरपडे वाके कल्याणके लिये वाकी शांति बडी उग्र करै ॥ ३८ ॥ __ कीर्तनेक्षणेति ॥ नकुल जे न्योला तिनको दर्शन शब्द नामकीर्तन ये संपूर्ण कार्यकू साधन करैहै. नखवारेनको और ये जो विषम कहे हैं इनकी गति कल्याणकी करबेवाली
Aho! Shrutgyanam