________________
( २७४ )
वसंतराजशाकुने - द्वादशो वर्गः ।
समीर भागेऽध्वगचौरसंगो दूतागमः स्त्रीपिशितान्नलाभः ॥ सौम्ये धनेष्टागमनं जयश्च रम्ये रखे चौरभयं त्वरम्ये ॥३०॥ महेश्वराशाधिगतश्च काकश्चौराग्निसंत्रासविरुद्धवार्ताम् ॥ - वीति रूक्षैः रटितैस्त्वरूक्षैः सभार्यगुर्वागमनं जयश्च ॥ ३१॥ ब्रह्मप्रदेशे प्रहरे द्वितीये काकः सुशब्दो नृपतिप्रसादम् ॥ मिष्टान्नभोज्यं च ददाति पुंसां करोत्यसौ चौरभयं कुशब्दः ॥ ३२ ॥
इति काकरुते दिक्चक्रप्रकरणे द्वितीयः प्रहरः ॥
॥ टीका ॥
सुवर्षणं च भवति ॥ २९ ॥ समीरेति ॥ वायव्येऽध्वगचौरसंगः स्यात् तथा दूतागमः स्त्रीपिशितान्नलाभश्च सौम्ये धनेष्टागमनं स्यात् रम्ये रखे जयश्च अरम्ये रखे तु चौरभयं स्यात् ॥ ३० ॥ महेश्वरेति || महेश्वराशाधिगतस्तु काकः रूक्षैः रटितैवौराग्नि संत्रासविरुद्धवार्तां ब्रवीति अरूक्षैः रटितैः सभार्यगुर्वागमनं जयश्च स्यात् ॥ ॥ ३१ ॥ ब्रह्मप्रदेश इति || ब्रह्मप्रदेशे द्वितीयप्रहरे सुशब्दः काकः नृपतिप्रसादं मिष्टान्नभोज्यं च ददाति कुशब्दः पुनरसौ पुंसां चौरभयं करोति ॥ ३२ ॥
इति वसंतराजीकायां काकरुते दिक्प्रकरणे द्वितीयप्रहरे शुभाशुभफलम् ।
॥ भाषा ॥
वृद्धि बहुत वर्षा होय ॥ २९ ॥ समीरेति ॥ वायव्यकोण में द्वितीयप्रहर में काकबोलै तो मार्ग में चोरको संग होय. कोई दूतको आगमन होय. और: स्त्री मांस अन्न इनको लाभ होय. और उत्तरदिशा में बोले तो धन और इष्टजनको आगम ये होयँ सौम्यशब्द करे तो जय होय. और क्रूर शब्द करे तो चौरभय होय || २० || महेश्वरेति ॥ ईशानदिशा में द्वितीय प्रहरमें काक रूखो बोलै तो चोर अग्नि इनके त्रास कर विरुद्धवार्ताकूं कहे है. और मधुरवाणी बोलै तो स्त्रीसहित गुरुनको आगमन और जय होय ॥ ३१ ॥ ब्रह्मप्रदेश इति ॥ द्वितीयप्रहर में आकाशमें स्थित होय बोले तो राजाको अनुग्रह मिष्टान्न भोजनपदार्थ देवै. क्रूरबोलै तो मनुष्यनकूं चौर भय करे ॥ ३२ ॥
इति श्री वसंतराजभाषाटीकायां काकरुते दिक्चक्रप्रकरणे द्वितीयप्रहरे शुभाशुभफलम् ॥
Aho! Shrutgyanam