________________
काकरुते दिक्चक्रप्रकरणम् सूर्योदयः। (२६९), विधाय दीप्ताभिमुखो विरावं ततः प्रशांताभिमुखौ विरौति ॥ यो वायसोऽसौ विनिहत्य सम्यक् कार्याणि सर्वाणि पुनः करोति ॥ १२॥ सूर्योदये पूर्वदिशि प्रशस्ते स्थाने स्थितो यो मधुरं विरौति ॥ नाशं रिपोश्चितितकार्यसिद्धि स्त्रीरत्नलाभं च करोति काकः ॥ १३ ॥ ध्वांक्षः प्रभाते यदि चह्निभागे विरौति तिष्ठन्रमणीयदेशे ॥ शत्रुः प्रणश्यत्यचिराद्विशस्त्रः प्रयाति योषित्समवाप्यते च ॥ १४ ॥ रुवन्प्रभाते दिशि दक्षिणस्यां काकः समावेदयतेऽतिदुःखम् ॥ रोगातमृत्युंपरुषस्वरेण रम्येण चेष्टागमयोषिदाप्तिः ॥१५॥
॥ टीका ॥ प्रदीप्ताभिमुखःशब्दमभिधाय पुनः प्रदीप्तं प्रविश्य यः मधुरस्वरेण काकः रौति स विरोधं विधाय सिद्धि विदधाति ॥ ११ ॥ विधायेति ॥ दीप्ताभिमुखः विरावं विधाय ततः शांताभिमुखो यो विरौति असौ वायसः कार्याणि विनिहत्य सम्यक पुनः सर्वाणि करोति ॥१२॥ सूर्योदय इति ॥ पूर्वदिशि प्रशस्ते स्थाने स्थितः यःकाकः मधुरं विरौति स रिपोर्नाशं चिंतितकासिद्धिं स्त्रीरत्नलाभं च क्रमेण करोति ॥ १३ ॥ ध्वाक्ष इति ॥ यदि प्रभाते ध्वाक्षः वहिभागे अग्नेयदिशि रमणीयदेशे तिष्ठन्विरौति तदा शत्रुरचिरात्स्तोककालेन प्रणश्यति स विशस्त्रः निर्मुक्त शस्त्रःप्रयाति योषित्समवाप्यते च ॥ १४॥रुवनिति ॥ प्रभाते दिशि दक्षिणस्यां रुवन्काकः अतिदुःखं समावेदयते परुषस्वरेण रुवन् रोगार्तस्य मृत्युं करोति च
॥ भाषा ॥
शामें स्थित होय और दीतदिशामें मुखकरके शब्द कर फिर दीप्तदिशामें प्रवेश करके काक शब्द करे तो प्रथम विरुद्धकरके फिर सिद्धि करै ॥ ११ ॥ विधायति ॥ प्रथमदीप्तदिशामें मुखकर शब्द करके फिरशांतदिशामें मुखकरके शब्द करै तो वो काक प्रथम सर्वकार्य विगाड करके पीछे सर्वकार्य करे ॥ १२ ॥ सुर्योदये इति ॥ सूर्य उदय होय जो समय पूर्वदि. शाम संदरस्थानमें बैठके जो काक मधुर शब्द करै वो वैरीको नाश और चिंतमन कियो कार्यकी सिद्धि और स्त्रीरत्नलाभ करै ॥ १३ ॥ ध्वाक्ष इति ॥ जो प्रभातकालमें काक अग्निकोणमें रमणीयदेशमें स्थित होय शब्दकर तो शत्रु शीघ्र नाशकू प्राप्त होय. और शस्त्र छोडकर चल्योजाय और स्त्री प्राप्तहोय ॥ १४ ॥ रुवनिति ॥ प्रभातकालमें दक्षिण दि
Aho ! Shrutgyanam