________________
काकरुते दिक्चक्रप्रकरणम् सूर्योदयः ।
( २६५ )
शब्देन सिद्धिर्लघुना प्रदिष्टा भयं भवेन्निष्ठुरजल्पितेन ॥ कायद्यमे सोमटिकां विहाय सत्यं कुतस्त्यं शकुनांतरेषु ॥ ११॥ वसंतराजशाकुने विचारिता करापिका ॥ इत्येकादशो वर्गः समाप्तः ॥ ११ ॥
अथोच्यते काकरुतं रुंतानां मूर्ध्नि स्थितं शाकुनभाषितानाम् ॥ अचिंतित वेदितभूरिकार्य पूर्वादिकाष्टाप्रहरक्रमेण ॥ १ ॥
॥ टीका ॥
शब्द इति ॥ लघुना शब्देन सिद्धिः प्रदिष्टा कथिता निष्ठुरजल्पितेन भयं भवेकायद्यमे सोमटिकां विहाय शकुनांतरेषु सत्यं कुतस्त्यम् ॥ ११ ॥ इति वसंतराज इति ॥ वसंतराजशाकुने करापिका विचारिता अन्यानि विशेषणानि पूर्व★वत् ॥ ११ ॥
इति श्री शत्रुंजयकर मोचनादिसुकृतकारि महोपाध्यायश्रीभानुचन्द्रविरचितायां वसंतराजटीकायां करापिकासंज्ञकः एकादशी वर्गः समाप्तः ॥ ११ ॥
अथेति ॥ करा पिकारुतकथनानंतरं काकरुतमुच्यते कथ्यते कीदृशं शाकुनभापितानां रुतानां मूर्ध्नि स्थितं सर्वेभ्योऽप्यधिकमित्यर्थः पुनः कीदृशमचिन्तितावेदि - तभूरिकार्यमिति, अचिन्तितमावेदितं भूरिकार्य येन तत्तथा केन पूर्वादिकाष्ठामहर क्रमेणेति पूर्वादिकाः दिशः तासु प्रहरादिक्रमः प्रथममहरे कीटक फलं द्वितीयप्रहरे
॥ भाषा ॥
अंगाडी और जेमनें मांउं करापिका शुभ जाननी और पीठपीछे विजयके अर्थ और वामा प्राणनाश करै प्रयाणसमय में फिर पुरग्रामप्रवेशसमय में वामा शुभ फलकी देबेवारी जाननी ॥ १० ॥ शब्द इति ॥ लघुशब्द करे तो सिद्धि कहनो, कठोर शब्द करें तो भय होय. कार्यके उद्यममें या करापिकाकूं छोड़करके और शकुनमें सत्यता नहीं ॥ ११ ॥
॥ इति श्री जटाशंकरपुत्र श्रीधरविरचितायां शकुनवसंतराजभाषाटीकायां करापिकावर्णनं नाम एकादशो वर्गः समाप्तः ॥ ११ ॥
अथेति ॥ करापिका के शब्दके अनंतर शकुनीनने कहे जे शब्द तिनके ऊपर संपूर्णत अधिक और बिना चिंतमन करे और जानोहुयो बहुतसो कार्य ताय पूर्वादिक दिशान में प्रहर प्रहरके क्रमकरके अर्थात् प्रथमप्रहरमें कैसोफल द्वितीय प्रहर में कैसोफल
Aho! Shrutgyanam