________________
( २५८ )
वसंतराजशाकुने - दशमो वर्गः ।
एतेषु चाद्येऽहनि खंजरीटो दृष्टोऽतिदृष्टः सहसोपविष्टः ॥ भोज्यान्नपानप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय चेष्टः ॥ ॥ १४ ॥ तुरंगमातंग महोरगेषु सरोजगोच्छत्रवृषेषु येन ॥ पूर्वे च दृष्टोऽहनि खंजरीटो निःसंशयं तस्य भवेन्नृपत्यम् ॥ १५ ॥ धान्यार्थलब्ध्यै महिषीध्वजादौ स्याद्गोमये गोरसलाभमाह || वस्त्रस्य लाभाय च शाद्वलादौ लाभाय गेहस्य च नावि दृष्टः ॥ १६ ॥
॥ टीका ॥
दूर्वा दूव इति प्रसिद्धा नृपमंदिरं राज्ञः सौधं तेषु अट्टालगृहोपरि गृह जंबालः फलं प्रसिद्धं प्रवालं किसलयं क्षीरद्रुमः क्षीरवृक्षः वटादिः उपस्कृततोरणं नवीनं यत्तोरणं तेषु ॥ १३ ॥ एतेष्विति ॥ आद्येऽहनि एतेषु स्थलेषु सहसोपविष्ट इति अकस्मादागत्योपविष्टः अतिहृष्टः प्रमोदवान् खंजरीट इष्टः सन्भोज्यान्नपानप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय च बुधैरिष्टं वांछितम् ॥ १४ ॥ तुरंग इति ॥ तुरंग: अश्वः मातंगो गजः महोरगः सर्पः तेषु सरोजगोच्छत्रवृषेष्विति सरोजं कमलं गौः प्रतीता छत्रमातपत्रं वृषः धवलः तेषु येन एतेषु स्थलेषु पूर्वत्राऽहनि खंजरीटो दृष्टः तस्य निःसंशयं नृपत्वं भवेत् ॥ १५ ॥ धान्यार्थ इति ॥ महिषीध्वजादौ स्थितः खंजरीटः धान्यार्थ लब्ध्यै स्यात् गोमये स्थितः गोरसलाभहेतुः स्यात् स एव शाइलादौ स्थितः वस्त्रस्य लाभाय स्यात् नावि दृष्टः गेहस्य लाभाय
॥ भाषा ॥
घरके ऊपर,
आदिले स्थान होय, जल होय, कमल, गोवर, गौकी पीठ दूर्वा राजाके महल, अटाली, कीचफलकूं फल, दूधके वृक्ष, वडकूं आदिले तिनमें और नवीन तोरणपै ॥ १३ ॥ एतेष्विति ॥ प्रथम दिवसमें इन स्थलनमें सहज बैठजाय वा अकस्मात् आयकरके बैठ जाय अतिप्रसन्न ऐसो खंजरीट भोज्यान्नपान, अपनो प्यारोगी, अश्ववस्त्र, इनको लाभादि करै. और रोगकी शांति करै ॥ १४ ॥ तुरंग इति ॥ जा पुरुषकूं घोडा, हाथी, सर्प, कमल, गो, छत्र, वृष इनपै बैठो हुयो पूर्वदिन में खंजरीट दीखे तो ता पुरुषकूं निः संदेह राजापनो होय ॥ १५ ॥ धान्यार्थ इति ॥ भैंस और ध्वजादिकनपे खंजरीट बैठो होय तो धान्य अर्थकी प्राप्ति होय. और गोबरपै स्थित होय तो गोरसकी प्राप्ति करे. जो हरी घासादिक
Aho! Shrutgyanam