________________
पोदकीरुते हंसादिकप्रकरणम्। (२३१ ) तृतीयप्रहरे शांता लाभं कुर्यात्कुमारिका ॥ प्रदीप्तार्थपरिभ्रंशं ब्रह्मस्थाने समाश्रिता ॥ ३८ ॥ चतुर्थप्रहरे शांता चौरेभ्यः कुरुते भयम् ॥ दीप्ता राजभयं कुर्यात्पोदकी ब्रह्मसंस्थिता ॥३९॥
इति पोदकीरुते भूपालमततथ्यादिक्प्रकरणम् ॥ .. उदीरयामो द्विपदेष्विदानी विहंगमाना शकुनानि सम्यक् ॥ प्रवर्तते यान्यधिगम्य लोकः कार्येष्वसंदिग्धमनाः सदैव ॥ ॥१॥ जाताः स्थ यस्माद्विनतासुतस्य कुले ततः पत्ररथा भवंतः ॥ दिव्यप्रभावा हृदयप्सितज्ञा नमोस्तु वो मे कियतां प्रसादः॥२॥ .
॥ टीका ॥ वति च पुनः प्रदीप्ता विनाशाय जायते ॥ ३७ ॥ तृतीयेति॥तृतीयप्रहरे ब्रह्मस्था ने आकाशे समाश्रिता शांता कुमारिका लाभं कुर्यात् प्रदीप्ता स्यात्तदा अर्थपरिभ्रंशं करोति ॥३८॥ चतुर्थेति ॥ चतुर्थप्रहरे ब्रह्मसंस्थिता आकाशे स्थिता पोदकी शांता चेत्तदा चौरेभ्यः भयं कुरुते दीप्ता सती राजभयं कुर्यात् ॥ ३९ ॥
इति पोदकीरते भूपालमततथ्यादिप्रकरणम् ॥ उदीरयामेति ॥ इदानी द्विपदेषु विहंगमानां शाकुनानि सम्यक् उदीरयामःलोकः यानि शकुनानि अधिगम्य दैव कार्येषु असंदिग्धमना प्रवर्तते॥१॥जाताःस्थेति ॥ यूयं विनतासुतस्य कुले जाताःस्थ ततोभवंतः पत्ररथाः दिव्यप्रभावा हृदयेप्सितज्ञाः अतः वः युष्माकंनमः अस्तु मे
॥भाषा॥ जाननी ॥ ३७॥ तृतीयेति ॥ तृतीय प्रहरमें आकाशमें स्थित कुमारी शांता होय तो लाभ करै प्रदीप्ता होय तो कार्यमें नाश करै ॥ ३८ ॥ चतुर्थेति ॥ चौथेप्रहरमें आकाशमें स्थितपोदकी शांता होय तो चौरनते भय करै और दीप्ता होय तो राजभयकरै ॥ ३९ ॥
॥ इति भूपालमततथ्यादिप्रकरणम् ॥ ॥ उदीरयामेति ॥ अब द्विपदनमें विहंगमनके शकुन कहैं हैं. ये मनुष्य जिन शकुनकुं जानकरके सदा कार्यनमें निःसंदेह मन प्रवर्त्त होय ॥ १ ॥ जाताः स्थेति ॥ तुम विनताके बेटा गरुडके कुलमें प्रगट हुये हो, ताते तुम पक्षी हो.दिव्यप्रभाव जिनके ऐसे और हृदयमें कछुक ज्ञानवान् और तुमकू नमस्कार हो, मेरे ऊपर अनुग्रह करो ॥२॥
Aho ! Shrutgyanam .