________________
पोदकीरते यात्राप्रकरणम् ।
(१९५) वामे प्रदेशे यदि वापसव्ये विहंगयुग्मं समभूमिभागे ॥ क्रीडारसव्याकुलितं नराणामव्याकुलत्वेन करोति सिद्धिम् ॥ ॥३१० ॥ वामदक्षिणविभागनिविष्टं तुल्यकालकृतशोभनशब्दम् ॥पक्षियुग्ममिह तोरणसंज्ञं सर्वकामदमुशंति मुनींद्राः ॥ ३११ ॥ उद्धृता भगवती यदि गंतुर्मातृतोऽपि न भवत्यभयं तत् ॥ दक्षिणा यदि पुनः कुशली तत्सिंहसर्पकरिवैरिवशोऽपि ॥३१२॥ताराप्रशस्ता गमनेऽध्वगानां महागुणा सैव यदि प्रशांता ॥ तारैव दीप्ता यदि वा तदानी लाभक्षतिः स्यान तु कापि भीतिः ॥३१३॥
॥ टीका ॥ वाम इति ॥ यदि वामे प्रदेशे वापसव्ये समभूमिभागे सति क्रीडारस व्याकुलितं पक्षियुग्मं भवति तदा नराणां सिद्धिमव्याकुलत्वेन करोति ॥ ३१० ॥ वामेति ॥ इहास्मिन्छास्त्रे तोरणसंज्ञं पक्षियुग्मं सर्वकामदं मुनयः उशंति प्रतिपादयति । कीदृशं वामदक्षिणविभागनिविष्टं पुनः कीदृशं तुल्यकालकृतशोभनशब्दम् ॥ ३११ ॥ उद्धृतेति ॥ यदि गंतुर्भगवती उद्धृता भवति तदा मातृतोऽभयं न भवति किमन्येभ्यः । यदि पुनः दक्षिणा भवति तदा सिंहसर्पकरि. वैरिवशोऽपि कुशली स्यात् ॥ ३१२ ॥ तारेति ॥ गमनोद्यतानां तारा प्रशस्ता भवति यदि सैव प्रशांता स्यात् तदा महागुणा यदि सा तारैव दीप्ता
॥ भाषा॥
चाम इति ॥ वामभागमें और जेमने भागमें समान पृथ्वी होय तहां पक्षीको युगल होय तो मनुष्यनकू क्रीडारूपी रस करके व्याकुल सिद्ध करै ॥ ३१० ॥ वामेति ॥ वामभागमें
और दक्षिणभागमें पक्षीको युगल बैठो होय एक संग दोनों माऊं शब्दकरते होंयँ तो मुनि या शास्त्रमें सर्वकामको देबेवारो तोरण संज्ञा याकी कहैं हैं ॥ ३११ ।। उद्धतेति ॥ जो गमन करबेबारेके भगवती उद्धृता होय तो माताते भी अभय नहीं होय. और ते तो कहा अभय होय जो फिर दक्षिणा होय तो सिंह, सर्प, हाथी, वैरी इनके वशमें पड जाय तो हूं कुशलही होय बिगाड नहीं होय. ।। ३१२॥ तारेति ॥ गमनमें दक्षिणा शुभ है जो वोही शांता होय तो बहुत गुणदायिक होय. और जो वो दक्षिणाही दीप्ता झेय तो लाभकी
Aho! Shrutgyanam