________________
(१०६) वसंतराजशाकुन-सप्तमो वर्गः। श्यामां पुरस्तादवलोक्य तस्मिन्नुदीर्य मंत्रं कुसुमाक्षताभ्याम् ॥ विधाय पजां प्रविधाय पृष्ठे दिनाधिनाथं शकुनानि पश्येत् ॥ ३२ ॥ तिरोहिते तत्र च तोरणा ते निरूप्य भद्राण्यशुभानि तद्वत् ॥ श्यामायुगस्यांगविचेष्टितानि कल्प्यं फलं तादृशमात्मकायें ॥३३॥ प्रश्न प्रशांते न निरीक्षते चेतपक्षी भवेत्तत्करणीयनाशः ॥ प्रश्न प्रदीप्ते न निरीक्षते चेत्पक्षी भवेत्तत्करणीयसिद्धिः ॥ ३४॥
॥ टोका।
भूयः पुनरपि शाकुनिकेन शकुनाचार्येण समं तोरणभूमिभागं यायात् । कस्मिन्प्रभाते अभ्युदिते उदयं प्राप्ते दिनेशे सूर्ये सति सहायवानिति स्वल्पपरिच्छदयुक्तः । पुनः कीदृशः निर्मलशुक्लवासा इति निर्मलं शुक्नं वासो यस्य स तथा । पुनः कीदृशः अनाकुलः स्थिरचित्तः ॥ ३१॥ श्यामामिति ॥ तस्मिंस्तोरणे श्यामां पुरस्तादग्रेऽव लोक्य मंत्रमुदीर्य कुसुमाक्षताभ्यां पुष्पतंडुलाभ्यां पूजां विधाय दिनाधिनाथं पृष्ठे पृष्ठभागे प्रविधाय कृत्वा शकुनानि पूर्वोक्तानि पश्येद्रिलोकयेत् ॥ ३२ ॥ तिरोहिते इति ॥ तिरोहिते वृक्षाच्छादिते तत्रेति तस्मिस्तोरणांते श्यामायुगस्य स्त्रीपुलक्षणपोदकीयुगलस्यांगविचेष्टितानि भद्राणि शुभानि अशुभानि तद्विपरीतानि निरूप्य ज्ञात्वा तद्वत् श्यामायुगस्यांगविचेष्टितवत् पुरुषेण आत्मनः कार्ये तादृशं फलं कल्प्यं कल्पनीयं कचित्तोरणेनेति पाठो दृश्यते तत्र तोरणेन कृत्वा तिरोहित इत्यर्थः कर्तव्यः ॥ ३३ ॥ प्रश्न इति ॥ प्रदीप्ते उग्रकार्यप्रश्ने सति
॥ भाषा।
पहरके शकुनाचार्यकू संगलेके तोरणभागके वहां जाय ॥ ३१ ॥ श्यामामिति ॥ ता तोरणमें अगाडी श्यामाकू देख करके मंत्र बोलकरके पुष्प अक्षतनकर पूजा करके फिर सूर्यकू पश्चिमदिशामें करके पूर्व कहे जे शकुन तिन्हें विलोकन करे ॥ ३२ ॥ तिरोहित इति ।। वृक्षकर आच्छादन होय रह्यो ऐसो जो तोरणको समीप तहां श्यामा युगकी चेष्टा शुभ अशुभ विपरीत जानकरके फेरपुरुष ता श्यामायुगके अंग की चेष्टाकीसी नाई अपने कार्यमें फल जाननो ॥ ३३ ॥ प्रश्न इति ॥ धर्मसंबंधी प्रश्न होय और जो पक्षी न दीख
Aho! Shrutgyanam