________________
( १०४ )
वसंतराजशाकुने- सप्तमो वर्गः ।
युग्मम् ॥ ग्राम्येण तुल्यश्चटकेन नीलो योऽसौ पुमान्पाडुरपुंडपक्षः ॥ लघ्वी ततो धूमनिभा च नारी तत्पोदकीयुग्ममुदाहरति ॥ २५ ॥ विलोकिते पक्षिणि तत्र तस्मै समंत्रकोऽर्वः शिरसा निवेद्यः ॥ दृश्येत चेत्पांडविका न तस्मिन्नर्घस्तदा तोरण एव देयः ॥ २६ ॥ भक्त्या ततः शाकुनिकं प्रपूज्य तां पक्षिपूजां विनिवेद्य तस्मै ॥ ध्यात्वा स्वकार्य हृदयेन सर्व गच्छेत्स्वगेहं विहितप्रणामः ॥ २७ ॥
॥ टीका ॥
द्धिम् ॥ युगलं गतार्थम् ॥ २४ ॥ ग्राम्येणेति ॥ ग्राम्येण चटकेन तुल्यवर्णेन नीलः यः स पुमान् कीदृक् पांडुरौ पुंड्रपक्षौ यस्य स तथा पुंडूं तिलकस्य स्थानं गृह्यते यद्वा पुंड्रौ पुष्टावित्यर्थः । ततो लघ्वी धूमनिभा धूमसदृशवर्णा नारी तत्पोदकीयुग्ममुदाहरति कथयंतीत्यर्थः ॥ २५ ॥ विलोकितेति ॥ तत्र तस्मिन्प्रदेशे विलो - किते दृटे पक्षिणि तस्मै शकुनाय समंत्रकोऽर्धः मंत्रेण सह वर्तमानः मंत्रोच्चारणपूर्वर्वकम् अर्थः शिरसा प्रणम्येति शेषः। निवेद्यः निवेदनीयः चेद्यदि तस्मिन्प्रदेशे पांडविका पोदकी न दृश्येत तर्हि अर्धस्तोरणे एव देयः प्रदातव्य इत्यर्थः ॥ २६ ॥ भक्त्येति ॥ ततस्तदनंतरं पुनः सः स्वगेहं गच्छेत् । कीदृग्विहितप्रणाम इति विहितः कृतः प्रणामो येन स तथा । किं कृत्वा प्रपूज्य पूजां विधाय कं पूर्वोक्तं भक्त्या शाकुनिकं शकुनाचार्यम् । पुनः किं कृत्वा तां पक्षिपूजां तस्मै गुरवे निवेद्य । पुनः किं कृत्वा स्वकार्यं निकाममत्यर्थं हृदयेन मनसि ध्यात्वा विमृश्य ॥ २७ ॥
॥ भाषा ॥
तुम्हारे अर्थ नमस्कार हो तुम मेरी अर्थ सिद्धि करो ॥ २४ ॥ ग्राम्येणेति ॥ ग्राममें चिडी होय इन को तुल्य होय नीलवर्ण जाको होय, और श्वेतवर्णके, और पुष्ट ऐसे जाके पंख होय जो ऐसो होय सो तो पुरुष जाननो, और जो छोटी होय धूम कोसो वर्ण जाको होय वा स्त्री जाननी इनकूं पादकीको युग्म कहैं हैं ॥ २९ ॥ विलोकिते इति ॥ ये पक्षी जो दखि तत्र ता पक्षीको अर्ध मंत्र बोलकर मस्तक नमाय अर्ध्य निवेदन करै वा इसमें तो - रणमेंभी अर्ध्य देनो योग्यहै ॥ ॥ २६ ॥ भक्तयेति ॥ तापीछे भक्तिकरके शकुन के आचार्यक
Aho! Shrutgyanam