________________
(९८)
वसंतराजशाकुने-सप्तमो वर्गः। एवं नरोद्वादशधा विभज्य कुर्याचतुर्विंशतिधा ततस्ताःपुनर्यथेष्टं प्रविभज्य कार्य यावदिनं कालविनिर्णयाय ॥ १०॥ यत्र प्रदेशेशकुनोऽनुकूलः फलाय विज्ञैः कथितः स कालः।। यत्र प्रदेशे प्रतिकूलवर्ती भवेत्स कालः फलनाशनाय ॥ ॥११॥ यदा दिनसंग्रहलनशुद्धिस्ताराबलं चन्द्रमसो बलं च ॥ पुंसां तदाभीप्सितकार्यसिद्धयै प्रत्यक्षरूपं शकुनं निरीक्ष्यम् ॥ १२ ॥
॥ टीका ॥
यो विभागः तस्य युक्तिः रचना तया तत्र निवर्तनस्थले भूमित्रयं निवेशनीयं तत स्तिस्रोवन्यश्चतुर्धा विभज्य वर्ष विधेयं मुधिया पंडितेन क्रमेणेति केचित्तु चतुश्चतुर्मासविभागेन तत्र निवर्तनस्थले वर्ष निवेशनीयं ततः मुधिया पंडितेन क्रमेण यस्मिन्देशे यतो वर्षप्रारंभस्तदादिकमेण तिस्रोप्यवन्यश्चतुर्धा विधेयाः विभजनीया इत्यर्थः॥९॥ एवमिति ।। नरो मनुष्यः एवमिति पूर्वोक्तप्रकारेण ताश्चतुर्विभक्ता अवन्यः द्वादशवा विभज्य मासनिर्णयं कुर्यात्ततस्ताश्चतुर्विंशतिधा विभज्य पक्षनि
यं कुर्यात् पुनर्यथेच्छं स्वेच्छया प्रविभज्य यावदिनमिति यावदिनपर्यन्तं निर्णयो भवति तावत्कालविनिर्णयाय कार्यमग्रे प्रयोजनाभावात् न कर्तव्यमित्यर्थः॥१०॥ योति ॥ यत्र देशे शकुनो अनुकुलः स कालः विज्ञैः फलाय कथितः यत्र प्रदेशे प्रतिकूलवर्ती शकुनः स कालः फलनाशाय भवति ॥ ११ ॥ यदेति ॥ यदा दिनसंग्रहलमशुद्धिर्भवति तत्र दिनं दिवसः ऋक्षं नक्षत्रं ग्रहाश्चन्द्रार्यमादयः
॥ भाषा॥
वर्ष करनो ॥ ९ ॥ एवमिति. ॥ ता पीछे पूर्वप्रकारतूं ता पृथ्वीके द्वादश विभाग करके मास निर्णय करे, और तापीछे चौवीसको भाग देकरके पक्ष निर्णय करे फिर अपनी इ. च्छापूर्वक विभाग देकरके जितने दिन पर्यंत निर्णय करनो होय तितनेही काल निर्णयके अर्थ करनो योग्यहै ॥ १०॥ यत्रेति ॥ जादेशमें शकुन अनुकूल होय वो काल विज्ञपुरुपनकरके फलके अर्थ कह्यो है, और जा प्रदेशमें प्रतिकूल शकुन होय वो काल फलके नाशके अर्थ होय ॥ ११ ॥ यदेति ॥ ज्योतिष शास्त्रसूं विचारकरके जब दिन नक्षत्र ग्रह
Aho! Shrutgyanam