________________
नरेंगते अंगस्फुरणप्रकरणम् ।
(९१)
मशकं तिलक पिटकं वापि व्रणमथ चिह्नं किमपि कदापि ॥ स्फुरति पदान्यधितिष्ठति यावत्स्यात्पूर्वोक्तं फलमपि तावत् ॥ ११ ॥ बिंदव उज्ज्वलवर्णा यस्य स्युर्यावन्नखरेषु नरस्य ॥ दुःखं तावन्नश्यति तस्य प्रतिदिनजातसुखातिशयस्य ॥ १२ ॥ त्यक्तदक्षिणापथे सदागतावुत्तरापथेन पंकजाकरम् || स्वेच्छया प्रसर्पति प्रसर्पतः सिध्यति क्षणादपेक्षितं ध्रुवम् ॥ १३ ॥
॥ टीका ॥
लानि हंति पुरुषाणां वामे भागे स्त्रीणां दक्षिणे भागे चेत्यर्थः ॥ १० ॥ मशकमिति || मशकं मस इति प्रसिद्धम्। तिलकमिति तिलधान्यानुकृतिः शरीरे कृष्णबिंदुविशेषः पिटकमिति विस्तृतं वपुषि रक्तं कृष्णं वा चिह्नं लक्षणमिति लोके व्रणं प्रसिद्धं किमपि चिह्नं पूर्वोक्ताद्विपरीतमेतन्मध्यात्कदाचिदेकं स्फुरति यावत् कालं स पुमांस्तेषु पदेषु अधितिष्ठति तावत्कालं पूर्वोक्तं फलमपि तस्य स्यात् । केचित्तु अन्यथा व्याख्यानयंति पूर्वोक्तेषु मध्यादेकं यदि शरीरे स्फुरति प्रकटी भवति तद्यावत्कालं पदान्यंगविशेषाणि अधितिष्ठति तावत्कालं तस्य फलं भवतीत्यर्थः । मशकादीनां कालांतरेणाभावदर्शनादेतद्वचनम् ॥ ११ ॥ विंदव इति ॥ नखरेषु नखेषु यस्य यावदुज्ज्वलवर्णा बिन्दवः स्युः तस्य तावद्दुःखं न स्यात् कीदृशस्य प्रतिदिनजातसुखातिशयस्येति प्रतिदिनं जातः सुखातिशयः सुखाधिक्यं यस्य स तथा केचित्तु आगंतुकानां बिंदूनामेव सुखजनकत्वं प्रतिपादयंति तदुक्तमन्यत्र 'आगंतवः प्रशस्ता स्युरिति भोजनृपोऽभ्यधात्' ।। इति ।। १२ ।। व्यक्तदक्षिणापथ इति ॥
॥ भाषा ॥
.
शकरें ॥ १० ॥ मशकमिति ॥ नस्सो तिल दक्षण व्रण और कोई चिह्न होय इनमेंसूं एकभी प्रगट होय जितने काल अंगमें स्थित होय तब ताई ताको फल पूर्व कहे जे होंय ये चिह कालांतरमें मिट भी जायो करहैं ॥ ११ ॥ बिंदव इति ॥ जाके नखनमें उज्ज्वल वर्णकेश्व बिंदु जबतक होय ता प्राणीकूं तव ताई दुःख होय ॥ १२ ॥ व्यक्तदक्षिणापथ इति
नहीं होय, दिनदिनप्रति सुखकी अधिकता
॥
दक्षिणमार्गकूं छोडके वायु उत्तर मार्ग करके
Aho! Shrutgyanam