________________
नरेंगिते उपश्रुतिप्रकरणम् ।
(७७)
अभीष्टदुष्टार्थफलं नराणामुक्तं समालोकनमत्र सम्यक् ॥ आलोकयामोऽथ सुनिश्चितार्थामुपश्रुतिं कार्यविनिश्चयाय || ॥ १ ॥ गच्छेति पृष्ठे पुरतस्तथैहि वागीदृशी केनचिदुच्यमाना ॥ सर्वाशिषश्चातिशयेन तेभ्यश्चित्तस्य तुष्ट्यर्थजयाय पुंसाम् ॥ २ ॥ सिद्ध्यै विरावा जहि छिंधि भिंधि चेत्यादयः शत्रुवधोद्यतानाम् ॥ क यासि मा गच्छ तथैवमाद्याः प्रयोजनारंभनिवारणार्थाः॥ ३॥
॥ टीका ॥
अभीष्टेति ॥ अभीष्टः मनोहारी दुष्टस्तद्विपरीतः अर्थः प्रयोजन यस्यैतादृशं फलं नराणामुक्तं प्रतिपादितम् अत्र ग्रंथे सम्यकू तदालोकनफलं च अधुना कार्यविनिश्चयाय उपश्रुतिं लोके असोई इति प्रसिद्धामालोचयामः कथयाम इत्यर्थः । देवप्रश्न उपश्रुतिरिति हैमः । कीदृशीं सुनिश्चितार्थामिति सुनिश्चितो निर्णीतः अर्थोयस्याः सा तथा ताम् ॥ १॥ गच्छेति ॥ पृष्ठे पृष्ठभागे गच्छं इति पुरतः अग्रभागे एहि आगच्छ ईदृशी वाक्केनचिदुच्यमाना कथ्यमाना पुंसां पुरुषाणां चित्तस्य मनसः तुष्ट्यर्थं जयायेति तुष्टिरेव अर्थः प्रयोजनं यस्य तादृशो यो जयः तस्मै अन्यथा चतुर्थी - द्विवचनं स्यात् । तथा अतिशयेन तेभ्यो नरेभ्यः सर्वाशिषः सर्वाश्च ता आशिष आशीवचनानि तुष्ट्यर्थ जयाय स्युरित्यर्थः । तत्र तुष्टिर्हर्षः अर्थो धनंजयः शत्रुपराभवः २ सिघायिति॥ शत्रुवधोद्यतानां पुंसां जहि छिंधि भिंधि वेत्यादयो विरावाः सिद्ध्यै स्युः तथा क यासि मा गच्छ एवमाद्याः विरावाः प्रयोजनारंभनिवारणार्था इति प्रयोजनं
॥ भाषा ॥
अभीष्टेति ॥ मनुष्यनके वांछितफल और विपरीत फल आलोकन फल कहे अब कार्यके निश्चय करवेके लिये लोकमें असोई या नाम करके प्रसिद्ध ऐसी उपश्रुति क हैं ॥ १ ॥ गच्छति ॥ गमन कर्त्ता पुरुषके पीठ पीछे गच्छ नाम गमन करो ऐसी वाणी कही जाय, और वाके अगाडी एहि नाम आओ ऐसी वाणी काऊ पुरुष करके कहवेमें आवे तो वा पुरुषकं संपूर्ण भाशिष मनकी तुष्टिके अर्थ जयके कार्यमें उद्युक्त होय रहेहैं, उनकूं मार्गमें कोई
अर्थ होय है ॥ २ ॥ सिद्धयै इति ॥ शत्रुके वधमें उद्युक्त होय रहेहोंय उनके
Aho! Shrutgyanam