________________
वसंतराजशाकुने - षष्ठो वर्गः ।
दीनद्विषत्कृष्णविमुक्तकेशाः क्रमेलकस्थाः खरसैरिभस्थाः ॥ संन्यासिसाक्रंदनपुंसकाद्या दुःखावहाः सर्वसमीहितेषु ॥ ॥ ४ ॥ युग्मम् ॥ पृथ्वीपतिर्ब्राह्मणहर्षयुक्तो वेश्या कुमारी सुहृदः सुवेषाः ॥ नार्यो नराश्वाश्ववृषाधिरूढाः शुभाय दृष्टा सकलोद्यमेषु ॥ ५ ॥
(७४)
॥ टीका ॥
स्विन्नाः पश्चादितरेतरद्वंद्वः रजस्वला इति स्त्रीधर्ममुपागता गर्भवतीति गर्भयुक्ता रुगर्ता इति रोगयुक्ता मलान्वितोन्मत्तजटाधराश्चेति मलेन अन्विताः सहिताः उन्मत्ता मद्यपानादिना क्षीबा जटाधारिणः अत्र कर्मधारयः द्वंद्वो वा ॥ ३ ॥ दीनद्विषदिति ॥ दीनाः दीनवदनाः द्विषतः कलहं कुर्वन्तः कृष्णाः कृष्णवर्णाः विमुक्तकेशा इति विमुक्ताः केशाः यैस्ते तथा असंयमितकेशा इत्यर्थः । क्रमेलकस्था इति उष्ट्राधिरूढाः खरसैरिभस्था इति खरो गर्दभः सैरिभो महिषस्तत्रस्थाः संन्यासिसाकंद - नपुंसकाद्या इति संन्यासिनः कुटीचराः आक्रंदैन रोदनाधिक्येन सहिताः साकंदा: नपुंसकाद्याः नपुंसकप्रभृतयः पश्चाद्वंद्वः ॥ ४ ॥ युग्मं, पृथ्वीपतिरिति ॥ सकलो. घमेषु सर्वकार्येषु एते दृष्टाः शुभाय भवंति तानेवाह पृथ्वीपतिरिति पृथ्वीपतिर्नृपतिः ब्राह्मणो विप्रः कीदृग्घर्षयुक्तः प्रमोदभाक् वेश्या वारांगना कुमारी अपरिणीता स्त्री सुहृदः सज्जनाः सुवेषाः शुभनेपथ्यधारिण्यो नार्यः स्त्रियः नराइच अश्ववृषाधिरूढाः अश्वो वाहः वृषो धवलः तयोरधिरूढाः स्थिता नरा इत्यर्थः तदुक्त
॥ भाषा H
दिक करके उन्मत्त होय, जटाधारी होय || ३ || दीनद्विषदिति || दनि जाको मुख होय कलह कररहो होय, कृष्णवर्ण जिनको होय, खुले केश जिनके होयं, ऊंटपे बैठो होय, खरपै वेठो होय, महिषपैं बैठो होय, संन्यासी होय, अधिक रोवतो होय, नपुंसक होय, अर्थात् हीँजडागत राडे नाचवे वारे ये सब नपुंसकही हैं, ये सब संपूर्ण कार्यन के बीच दुःखके देवेवारे हैं ॥ ४ ॥ युग्मं, पृथ्वीपतिरिति ॥ राजा होय, हर्षयुक्त ब्राह्मण होंय, बेश्याहोंय, कुमारी कन्या होय, सज्जन पुरुष होय, सुंदर जिनके वेष ऐसे स्त्री पुरुष होय, घोडापे बैठे होंय, बैलपे बैठेहोय, ये दोनों श्लोकमें जे कहे हैं ते सब संपूर्ण कार्यनमें ये दीख जांय तो शुभ करवे -
Aho! Shrutgyanam