________________
(७२) वसंतराजशाकुने-पंचमो वर्गः। दृष्टेः शवे रोदनशब्दहीने महार्थसिद्धिः कथितोद्यमेषु ॥ गृहप्रवेशे तु शवः शवत्वं रुजं सुदीर्घामथ वा ददाति ॥ ॥ १४ ॥ गंडूषमावर्तयतां नराणामंतर्जलं चेत्प्रविशत्यकस्मात् ॥ भवेत्तदाऽभीप्सितभोज्यलाभो यः कौतुकी तेन निरूप्यमेतत् ॥ १५ ॥ उज्झितं झटिति दंतधावनं संमुखं पतति यत्र वासरे ॥ भोजनं भवति तत्र वांछितं व्यासभाषितमिदं हि नानृतम् ॥ १६ ॥ इति श्रीवसंतराजशाकुने शुभाशुभनिर्णयो नाम पंचमो वर्गः॥५॥
॥टीका॥ र्यार्थः ॥ १३ ॥ दृष्ट इति ॥ रोदनशब्दहीने शवे दृष्टे सति उद्यमेषु महार्थसिद्धिः कथिता बुधैरिति शेषः । प्रवेशे तु शवः शवत्वमथ वा सुदीर्घा रुजं ददाति ॥१४॥ गंडूषमिति ॥ गंडूषमावर्तयतां नराणां चदकस्मादतर्जलं प्रविशति तदा अभीप्सितभोज्यलाभः स्यात् । यः कौतुकी स्यात्तेनैतन्निरीक्ष्यं विलोकनीयम् ॥ १५ ॥ उज्झितमिति ॥ उज्झितं त्यक्तं दंतधावनं यत्र वासरे झटिति शीघ्र संमुखं पतति तत्र वासरे वांछितं भोजनं भवति हि यस्मादिदं व्यासभाषितं नानृतं सत्यमित्यर्थः१६ - वसंतराज इति ॥ मया शुभाशुभे विचारिते कस्मिन्वसन्तराजशाकुने ग्रंथे अन्यानि विशेषणानि पूर्ववव्याख्येयानि इति शत्रुजयकरमोचनादिसुकृतकारिभिमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां पंचमो वर्गः ॥५॥
॥भाषा ॥ दृष्ट इति ॥ संगमें कोई रोतो न होय ऐसो शव कहा मरो मुरदा दीखे तो सर्व उद्यमनमें ' महान् अर्थसिद्धि विवेकानने कहीहै और गहप्रवेश समयमें तो शव दीखे तो मृत्यु अथवा दर्घि रोग देवे ॥ १४ ॥ गंडूषमिति ॥ गंडूष जो कुल्ला कर रह्यो होय मनुष्य ताके अ. कस्मात भीतर जल प्रवेश करजाय तो वांछित भोजन पदार्थ लाभ होय जो कै न मानें उनकू या प्रकार देखलेनो योग्य हैं ॥ १५ ॥ उज्झितमिति ॥ जादिना दांतुन करतेमें दांतुन हाथमें सूं छूटके सम्मुख जाय पड़े तादिना बांछित भोजन होय निश्चय ये व्यासजी. को वचन है झूठो नहीं है सत्य है ॥ १६ ॥
- इति श्रीमजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजशाकुन
भाषाटीकायां शुभाशुभप्रकरणं नाम पंचमो वर्गः ॥५॥
Aho ! Shrutgyanam