________________
(६६) वसंतराजशाकुने-चतुर्थों वर्गः।
भूरयः खगमृगाः समाकुलास्तुल्यकालविहितारवास्तु ये ॥ ते भवंति परदेशयायिनां देहिनां मरणकारिणो ध्रुवम् ॥७॥ मिश्रकसप्ततिनावमिमां यो निर्मलधीरधिरोहति धीरः॥ शाकुनसागरपारयियासोाकुलता भवतीह न तस्य । ॥७२॥ ॥ इति श्रीवसंतराजशाकुने विचारितं मिश्रप्रकरणं नाम चतुर्थों वर्गः ॥४॥
॥टीका ॥ स्तानि पंचषाणि पंच वा षट् वा पंचषाणि शकुनानि देहिनां मनुष्याणां चद्भवति पूर्व पूर्वमभिवाध्य निश्चितमंतिमः शकुनः फलं ददाति ॥ ७० ॥ भूरय इति ॥ ये खगमृगाः खगाः पक्षिणःमृगाः वन्यसत्त्वाःखगाश्च मृगाश्चेति वंद्वः। तुल्यकालविहितारवाः समकाले कृतशब्दाः समाकुलाः संघीभूताः स्युःते परदेशयायिनां देहिनांध्रवं मरणकारिणो भवंति ॥ ७१ ॥ मिश्रकोत ॥ इमां मिश्रकसप्ततिनावं मिश्रकस्य सप्ततिश्लोकसंख्याकां तरी यः निर्मलधीः विशुद्धबुद्धिः सद्यः अधिरोहति अध्यास्ते तस्य पुरुषस्य शाकुनसागरपारयियासोरिति शाकुनं तद्रूपो यः सागरः समुद्रः तस्य पारं यियासोर्गन्तुकामस्य इहात्र लोके शकुनशास्त्रे व्याकुलता व्यग्रता न भवतीत्यर्थः॥ ७२ ॥ वसंतराज इति ॥ मया विमिश्रिकं विचारितं विचारपथं नीतमन्यानि विशेषणानि पूर्ववत् ।।
इति शत्रुजयकरमोचनादिसुकृतकारिभिः महोपाध्यायश्रीभानुचंद्रगणिभिविरचितायां वसन्तराजटीकायां विमिश्रकश्चतुर्थो वर्गः॥४॥
॥ भाषा॥ त्तर पांच छै शकुन होंय तब पहले हुये जो शकुन तिने बाधकरके निश्चय अंतिम कहिये पिछलो जो शकुन सो फल देवैहै ।। ७० ॥ भूरय इति ॥ जो खग, मृग ये एककालमें शब्द करें और समूह होय तो ते शकुन परदेश जायवेवारेनकू निश्चयही मरणके करवेवाले हैं ॥ ७१ ॥ मिश्रक इति ॥ निर्मल जाकी बुद्धि ऐसो जो धरिपुरुष या मिश्रक नामकर जो सत्तर श्लोक रूपी नाव तामें चढे शाकुन रूप जो सागर समुद्र ताके पार होयवेकू इच्छाकर रह्यो ता पुरुषकू व्याकुलता नहीं होय ॥ ७२ ॥
__ इति श्रीमन्जटाशंकरात्मजज्योतिर्विच्छ्रीधरकृतवसंतराजशाकुनभाषाटीकायां विमिश्रकश्चतुर्थो वर्गः॥४॥
Aho ! Shrutgyanam