________________
(५४) वसंतराजशाकुने-चतुर्थो वर्गः।
अंगारभस्मोपलवल्कपंकगर्ता गुहाकेशतुषास्थिविष्टाः॥ घृणाकराः खर्परकोटराया न नीचदेशाः शुभदा भवंति ।। ॥४२॥ सप्ताहमासायनहायनांते ग्रामं पुरं देशमवन्यधीशम् ॥ एकत्र देशे रटति प्रदीप्तो निहंत्यवश्यं शकुनः क्रमेण ॥४३॥
॥ टीका ॥
न्यस्ताः ये दुमाः वृक्षाः तत्प्रमुखा वल्मीकः कृमिपर्वतः। “वल्मीकटं वामलूरो नाकु: शशिरश्च सः । इति हैमः ॥४१॥ अंगारेति ॥ एते नीचदेशाः शुभा न भवन्ति । के ते इत्यपेक्षायामाह । अंगारेति ।। अंगारः ज्वलितकाष्ठांशः भस्म क्षारम् उपल: प्रस्तरः वल्कं वृक्षत्वक् पंकः कर्दमः गतः खातप्रदेशः गुहा दरी केशः अलकः तुषः धान्यत्वग् अस्थि प्रतीकं विष्ठा मलः घृणाकराः बीभत्सोत्पादकाः। खर्परकोटराद्या इति खर्परं चीवरमिति लोके मृद्भांडशकलम् । “खर्परस्तस्करे धूर्ते भिक्षुपात्रकपालयोः" इति श्रीधरः । कपालखर्परौ घटादीनां खंडेऽप्युपचारात् यदाह । “कपालं शिरसोऽस्थि स्याटादेः शकले बजे"। इति महेश्वरः। कपरे इति पाठे कर्परं मस्तकस्यार्धास्थिवाचकं यदाह। 'कर्परोजतुनिप्रोक्तः कपालेपि च कर्परः" इति विश्वः॥ कोटरः कोतर इति प्रसिद्ध इत्येवमादयःकर्परकोटरो आद्यौ मुख्यौ येषु ये तथोक्ता वा खर्परमस्थिविशेषःकोटराः प्रतीताः ॥ ४२ ॥ सप्ताहति ॥ एकत्र देशे यदा प्रदीप्तः शकुनः रटति त्यजति तदा क्रमेण परिपाट्या शकुनः अवश्यं निश्चयेन सप्तदिनांते ग्रामं निहन्ति मासान्ते पुरम।"पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ"। इत्यमरः। “द्वौ द्वौ मार्गादिमासौ स्याहतुस्तैरयनं त्रिभिः"॥इत्यमरः। अयनांते देशं
॥ भाषा॥
अंगारइति ॥ जलती लकडियां पडी होय, और राखपडी होय, वा पाषाण होय, वा वल्कल, और कीच, और खात पटकबेकेगर्त, और गुफा, और बाल, और धान्यकी तुष, और हाड, और विष्टा इनकू आदिले ये नीच देशहैं सो शुभके देवेवारे नहीं हैं ॥ ४२ ॥ सप्ताबोतिएकत्रदेशमें जो प्रदीप्त शकुन होय तो क्रमकरके वो शकुन निश्चयही सात दिनके अंतमें ग्रामकू नाश करै, और मासके अंतमें पुयकं नाश करै और अपनके अंतमें देशकू और वर्षके अं
Aho ! Shrutgyanam