________________
हेमचन्द्रव्याकरणे
किरोङ्को से लश्च वा ।। ६२॥ किरतेरङ्कः प्रत्ययो भवति रेफस्य च लकारादेशो वा भवति ।। करङ्कः समुन्नः । कलङ्को लाञ्छनम् ।। ६२ ।।
रालापाकाभ्यः कित् ॥ ६३॥ एभ्यः किदङः प्रत्ययो भवति ।। रांक दाने | रङ्कोबलीयान् ॥ लांक् आदाने | लङ्का पुरी || पांक रक्षणे | पङ्कः कर्दमः ।। मैं शब्दे । कङ्कः पक्षी ।। ६३।।
कुलिचिरिभ्यामिङ्कक् ॥६४॥ __ आभ्यामिकक् प्रत्ययो भवति ।। कुल बन्धुसंस्त्यानयोः । कुलिङ्कवटका ॥ चिर हिंसायां सौत्रः। चिरिडूं जलयन्त्रम् ।। ६४ ॥
कलेरविङ्कः ॥६५॥ कलेरविङ्कः प्रत्ययो भवति ।। कलि शब्दसंख्यानयोः । कलविडो गृहचटकः ॥६५॥
क्रमेरेलकः॥६६॥ क्रमू पादविक्षेपे | इत्यस्मादेलकः प्रत्ययो भवति । क्रमेलकः करभः ।। ६६॥
जीवरातृको जैव च ।। ६७॥ जीव प्राणधारणे । इत्यस्मादातृकः प्रत्ययो भवति जैवित्यादेशश्च भवति । जैवातृक आयुष्माञ्चन्द्र आम्रो वैद्यो मेघश्च । जैवातृका जीवद्वत्सा स्त्री ।। ६७ ।।
हृभूलाभ्य आणकः ।।६८॥ एभ्य आणकः प्रत्ययो भवति || हंग् हरणे । हराणकचौरः ॥ भू सत्तायाम् । भवाणको गृहपतिः || लांक आदाने । लाणको हस्ती ।। ६८ ।।
प्रियः कित् ।। ६९ ॥ पींग्श् तृप्तिकान्त्योः । इत्यस्मादाणकः प्रत्ययो भवति स च कित् भवति || प्रियाणकः पुत्रः ।। ६९॥
धालूशिङ्किभ्यः ॥७०॥ योगविभाग उत्तरार्थः । एभ्य आणकः प्रत्ययो भवति ॥ डुधांगक धारणे च । धाणको दीनारहादशभागो हविषां ग्रहश्छिद्रपिधानं च ।। लूग्श् छेदने । लवाणकः कालस्तृणजातित्रं च || शिघु आघ्राणे | शिक्षाणको नासिकामलः।।७०॥
Aho 1 Shrutagyanam