________________
हेमचन्द्रव्याकरणे
[५१-५७ द्वित्वं पकारयोः फत्वं रवान्तः पूर्वस्य । फर्फरीकं पल्लवं पादुका मर्दलिका च ॥ झीर्यतेईित्वं तृतीयाभावः पर्वस्य रथान्तः । झझरीकं देहः । झझरीका वादित्रभाण्डम् ।। एवं परतेः । धर्धरीका घण्टिका || आदिग्रहणादन्येपि ।। ६० ।।
मिवमिकटिभल्लिकुहेरुकः ॥ ५१ ॥ एभ्य उकः प्रत्ययो भवति || डुमिंग्ट् प्रक्षेपणे । मयुक आतपः । बाहुलकात् मिग्मीग इति नात्वम् । दुवमू उद्भिरणे । वमुको जलदः ॥ कटे वर्षावरणयोः । कटुको रसविशेषः ।। मल्लि परिभाषणहिंसादानेषु । भल्लुक ऋतः ।। कुणि विस्मापने | कुहुकमाचर्यम् ॥ ५१ ॥
संविभ्यां कसेः ।। ५२ ॥ आभ्यां परस्मात् कसेरुकः प्रत्ययो भवति ॥ कस गतौ । संकसुकः सुकुमारः परापवादशीलः श्राद्धानिश्च | संकसुकं व्यक्ताव्यक्तं संकीर्णं च ॥ विकसुको गुणवादी परिश्रान्तश्च ॥ ५२ ।।
क्रमेः कृम् च वा ॥ ५३॥ क्रमेरुकः प्रत्ययो भवत्यस्य च कृमित्यादेशो वा भवति ॥ क्रमू पादविक्षेपे | कृमुको बन्धनः । आदेशविधानबलाच न गुणः । क्रमुकः पूगतरुः ।। ५३ ।।
कमितिमेयॊन्तश्च ॥ ५४॥ आभ्यामुकः प्रत्ययो भवति दधान्तो भवति ॥ कमूड कान्तौ । कन्दुकः क्रीडनकम् ।। तिमच आर्द्रभावे । तिन्दुको वृक्षः ।। ५४ ॥
____ मण्डेर्मड्ड च ॥ ५५ ॥ मण्डेरुकः प्रत्ययो भवति मश्चादेशो भवति || मडु भूषायाम् | महुको पाद्यविशेषः ॥ ५५ ॥
कण्यणित् ॥ ५६ ॥ आभ्यां णिदुकः प्रत्ययो भवति ।। कण अण शब्दे | काणुकः काको हिंस्रथ । काणुकमाणुकं चालिमलम् ।। ५६ ॥ कञ्चुकांशुकनंशुकपाकुकहित्रुकचिबुकजम्बुकचुलुकचूचुकोल्मुकभा
वुकपृथुकमधुकादयः ॥ ७॥ एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धमे । अशौटि व्याप्तौ | नशौच अदर्शने । एषां स्वरानोन्तश्च । कञ्चुकः कूर्मासः। अंशुकं वस्त्रम् । नंशुको
Aho I Shrutagyanam