________________
३४७-३५१]
उणादिगणविवृतिः गुल्ममायस्थानम् || जिघ्रतेरोत्वं च | प्रोमो यज्ञाङ्गलक्षणः सोमः ॥ परिपूर्वात् स्तोतेः षत्वाभावो गुणश्च | परिस्तोमो यज्ञविशेषः ॥ सूचण पैशून्ये । कत्वं षोन्तश्च । सूक्ष्मो निपुणः । सूक्ष्ममणु ।। आदिग्रहणात् मादयो भवन्ति ॥ ३४६ ॥
सपप्रथिचरिकडिकरमः ॥ ३४७ ॥ एभ्योमः प्रत्ययो भवति ॥ सं गतौ । सरमा देवशुनी ॥ पृश् पालनपूरणयोः । परम उत्कृष्टः ॥ प्रथिष् प्रख्याने । प्रथम आद्यः ॥ चर भक्षणे । चरम: पश्चिमः ॥ कडत् मदे । कडमः शालिः | ऋफिडादित्वाल्लत्वे । कलमः स एव ।। कर्द कुत्सिते शब्दे । कर्दमः पङ्कः ।। ३४७ ॥
अवध् च वा ॥ ३४८ ॥ भव रक्षणादौ । इत्यस्मादमः प्रत्ययो भवति ] धवान्तादेशो वा भवति । अधमोवमश्च हीनः ॥ ३४८॥
कुट्टिवेष्टिपूरिपिषिसिचिगयर्पिवृमहिभ्य इमः ॥ ३४९ ॥
एभ्य इमः प्रत्ययो भवति ॥ कुट्टण् कुत्सने च | कुट्टिमं संस्कृतभूमितलम् ॥ वेष्टि वेष्टने । वेष्टिमं पुष्पबन्धविशेषो भक्ष्यविशेषश्च ।। पूरैचि आप्यायने । पूरिमं मालाबन्धविशेषो भक्ष्यविशेषश्च ।। पिषूप् संचूर्णने । पेषिमं भक्ष्यविशेषः ॥ विचीत् क्षरणे । सेचिमं मालाविशेषः ॥ गणण् संख्याने । गणिमं गणितम् ॥ कंक् गतौ । णौ पैौ । अर्पिमं बालवत्साया दुग्धम् || वृग्ट वरणे । परिमं तुलोन्मेयम् ।। मह पूजायाम् । महिमं पूजनीयम् ॥ ३४९ ॥
वयिमखचिमादयः ॥ ३५० ॥ वयिमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते ॥ वेंग् तन्तुसंताने । वयादेशथ । वयिमं माल्यं कन्दुकस्तन्तुवायदण्डश्च ।। खनूग् अवदारणे | चश्च । खचिमं मणिलोहविद्धं घृतविहीनं च ॥ आदिशब्दादन्येपि ॥ ३५० ॥
उद्दटिकुल्यलिथिकुरिकुटिकुडिकुसिभ्यः कुमः ॥ ३५१॥
उत्पूर्वात् वटेः कुल्यादिभ्यश्च किदुमः प्रत्ययो भवति ॥ वट वेष्टने।उहटुमः परिक्षेपः ॥ कुल बन्धुसंस्त्यानयोः ॥ कुलुम उत्सवः ॥ अली भूषणादौ । अलुमः प्रसाधनं नापितोनिश्च ।। कुथच् पूतिभावे । कुथुम ऋषिः । कुथुमं मृगाजिनम् ।। कुरत् शब्दे । कुरुमः कारुर्भाजनं च ॥ कुटत् कौटिल्ये । कुटुमः प्रेष्यः । कुडत् बाल्ये च । कुडुमा भूमिः ।। कुसच् श्लेषे । कुसुमं पुष्पम् ॥ ३५१ ॥
Aho ! Shrutagyanam