________________
हेमचन्द्रव्याकरणे
[१३८-४२ लुषेष्टः ।। १३८ ॥ लुष स्तेये । इत्यस्माट्टः प्रत्ययो भवति || लोप्टो मृत्पिण्डः ।। १३८॥
नमितनिजनिवनिसनो लुक् च ।। १३९॥ एभ्यष्टः प्रत्ययो भवति लुक् चान्तस्य भवति || णमं प्रहत्वे | नटो भरतपुत्रः ।। तनूयी विस्तारे । तटं कूलम् ।। जनैचि प्रादुर्भावे । जटा प्रथितकेशसंघातः।। वन पन भक्तौ । वटो न्यग्रोधः ।। सटाग्रथितः केशसंघातः ॥ १३९ ॥
जनिपणिकिजुभ्यो दीर्घश्च ।। १४०॥ एभ्यष्टः प्रत्ययो भवति दीर्घश्चैषां गुणापवादो भवति || जनैचि प्रादुर्भावे । पणि व्यवहारस्तुत्योः । जाण्टः । पाण्टः । [वृक्षविशेषावेतौ ।। किजू सौत्रौ । कीटः क्षुद्रजन्तुः ।। जूटो मौलिः ।। १४०॥
घटाघाटाघण्टादयः ।। १४१।। - एते टप्रत्ययान्ता निपात्यन्ते ।। हन्तेर्घघाघनश्च । घटा वृन्दम् ॥ घाटा स्वाजम् ॥ घण्टा वाद्यविशेषः ।। आदिग्रहणात् छटादयो भवन्ति ।। १४१।। दिव्यविश्रुकुशिकिकङ्किकृपिचपिचमिकम्यधिकर्किमार्ककाक्ख
तृकृसृभृवृभ्याटः॥ १४२।। एभ्योटः प्रत्ययो भवति ॥ दिवूच् क्रीडादौ । देवटो देवकुलविशेषः शिल्पी च ॥ अव रक्षणादौ | अवटः प्रपातः कूपश्च ।। श्रृंट अवणे । अवटश्छन्नम् ।। कुंक् शब्दे | कवट उच्छिष्टम् ।। कर्ब गतौ । कर्बट क्षुद्रपत्तनम् || शक्लंट शक्तौ । शकटमनः ।। ककुड् गतौ । कङ्कटः संनाहः । कङ्कटं सीमा || कृपौड् सामर्थे । कर्पटं वासः ॥ चप सान्त्वने | चपटो रसः ॥ चमू अदने । चमटो घस्मरः ॥ कमूड् कान्तौ । कमटो वामनः ॥ एधि वृद्धौ | एघटो वल्मीकः ॥ कर्किमर्की सौत्रौ । कर्कटः कपिलः कुलीरथ । कर्कटी पुसी || मर्कटः कपिः क्षुद्र जन्तुश्च ॥ कक्ख हसने । कक्खटः कर्कशः ॥ तृ प्लवनतरणयोः । तरटः पीनः ।। डुक्कंग करणे | करटः काकः करिकपोलश्च ।। तूं गतौ । सरटः कृकलासः ।। टुडुभंगक् पोषणे च । भरटः प्लवविशेषो मृत्यः कुलालश्च ।। वृग्ट वरणे | वरटः क्षुद्रधान्य प्रहारश्च ।। १४२॥
Aho I Shrutagyanam