________________
१२०
प्राकृतप्रकाशे ओ सूचनापश्चात्तापविकल्पेषु ॥ ४ ॥ ओ इत्ययं शब्दः सूचनापश्चात्तापविकल्पेषु निपातसंज्ञो भ. वति । ओ चिरअसि । (२-२ यलोप ७-२ सि) गाथामु द्रव्य व्यः ॥४॥
इरकिरकिला अनिश्चिताख्याने ॥ ५ ॥ इर, किर, किल इयेते शब्दा अनिश्चिताख्याने निपातसंज्ञका भवन्ति । पेक्ख इर तेण हदो (आदिमः ६-५१ मू० द्रष्टव्यः । तेण ४-६ तदोन्यलोपः ५-१२ एत्वं ५-४ टा=ण(१) । अन्त्यः ४-६ हनोऽन्त्यलोपः १२-३ त-द ५-१ ओ) अज किर तेण वसिओ । (व्यवसित इत्यत्र ३-२ यलोपः प्राय इति २-२ बलोपो न २-२ तलोपः ५-१ ओशो० स्प०) अअं किल सिविणओ (२-२ यलोप ४-१२ मा शे० स्प० । अन्यं १-६ मृ० द्रष्टव्यं) । प्रेक्षस्व किल रोन हतः । अद्य किल तेन व्यवसितः । अयं किल स्वप्नः ॥ ५ ॥
हुँ क्खु निश्चयक्तिकसम्भावनेषु ॥ ६ ॥ __ हुं, क्खु इसेतो निश्चयवितर्कसम्भावनेषु निपातसंज्ञको भवतः। हुँ रक्खसो । (हुं स्प० ३-२९ क्ष-ख ३-५० खद्वि० ३-५१ व-क् ४-१ इस्वः ५-१ ओ) गुरुओ क्खु भारो (५-१ आत्वम् अन्यत्स्पष्टम)। हुं राक्षसः । गुरुः खलु भारः ॥ ६ ॥
‘णवरः केवले ॥ ७॥ णवरः इत्यय शब्द: केवलेर्थे निपातसंज्ञो भवति । णवर अ. णं (अन्न शब्दस्य २-४२ नग ४-१२ मवि०(२) ॥ ७ ॥ (१) तेनेत्यत्र २-४२ इति णत्व मात्रमिति केचित् ।
(२) केवलमन्नमित्यर्थः । केचित्तु अन्य, शब्दस्य ३-२ यलो. पः २-४२ न=ण ३-५० णद्वि० शे० पू०)
Aho! Shrutgyanam