________________
विंशतिः३]
मानसोल्लासः।
बालारष्टभिर्लिक्षाः यूका लिक्षाष्टकं भवेत् । यूकाष्टकं यवः प्रोक्तो यवाष्टकमथाङ्गुलम् ।। १९५॥ . एकाङ्गुलं भवेन्मात्रा द्वे' मात्रे गोलकं कला । त्रिमात्रम (ध्य)र्द्धकला भागश्च चतुरङ्गुलम् ॥ १९६ ॥ त्रयो भागा वितस्तिः स्याद्वितस्तिस्ताल उच्यते । तालस्तु मुखमाख्यातः व्यवहाराय कोविदः ॥ १९७ ॥ उत्सेधस्तुभवेदैर्ध्य विस्तारस्तिर्यगीरितः । आनाह(हः) परिधिः स्थौल्यमेवं मानत्रयं भवेत् ॥ १९८ ॥ दैवतं यल्लिखेद्रूपं यावन्मानमभीप्सितम् । विभजेद्वदनं तस्य त्रिभिर्भागैविचक्षणः ॥ १९९ ॥ केशान्ताद्धनुपर्यन्तं मुखं ताल इति स्मृतम् । स्याद्वादशाङ्गुलं वकं तत्तद्रूपस्य मानतः ॥ २०० ॥ तालमात्रं मुखं तत्र ग्रीवा स्याच्चतुरङ्गुला । तालः स्याद्धृदयं यावदानाभेस्ताल इष्यते ।। २०१॥ नाभेरधस्तात्तालस्तु मेदावधिमितो भवेत् । तालद्वयं भवेदूरू जानु स्याच्चतुरङ्गुलम् ॥ २०२॥ तालद्वयमिता जङ्घा चरणश्चतुरङ्गुलेः । नव तालमिदं मानं केशान्ताच्चरणावधि ॥ २०३ ॥ केशान्तस्योपरिप्रोक्तं मस्तकं चतुरङ्ग्लम् । केशान्तान्मौलिरुद्दिष्टः शिष्टैरष्टादशाङ्गुलैः ।। २०४ ॥ ब्रह्मसूत्रस्य मानेन तालमानं निरूपितम् ।
___ इति ताललक्षणम् । तिर्यक्मूत्रविधि वक्ष्ये प्रतिसन्धि यथाक्रमम् ।। २०५॥ मस्तके प्रथम सूत्रं केशान्ते तदनन्तरम् । कर्णाग्रं(ग्रात) व्यङ्गुलादूर्ध्व तत्सूत्रं वेष्टयेच्छिरः ॥ २०६ ॥ . .
१D द्विमात्रा । २ A नं । ३ A मि। ४ Fणे च । ५ F लम् ।
: ..
Aho ! Shrutgyanam