SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [ अध्याय १ केवलैव हि या नीली भवेदिन्दीवरप्रभा । हरितालेन मिश्रा चेजायते हरितच्छविः ॥ १६२ ।। कज्जलं गैरिकोपेतं श्यामवर्ण प्रजायते । अलक्तकेन संयुक्तं कज्जलं पाटलं भवेत् ॥ १६३ ॥ अलक्तं नीलिकायुक्तं जम्बूवर्णं भवेत्स्फुटम् । इति मिश्रवर्णाः । एवं शुद्धाश्च मिश्राश्च वर्णभेदाः प्रकीर्तिताः ।। १६४ ॥ तत्तद्रूपानुसारेण पूरणीयास्तु चित्रकैः । एणसारङ्गशार्दूलशिखितित्तिरिकादिषु ॥ १६५ ॥ भिन्नवर्णेषु सत्त्वेषु पृथग्वर्णः प्रयुज्यते । वृक्षपर्वतवस्त्रादिपदार्थेषु यथोचिताः ॥ १६६ ॥ भिन्ना वर्णाः प्रयोक्तव्याश्चित्रकश्चित्रकर्मणि । गौरवर्णेषु नीलेषु हरितालं पुरो न्यसेत् ॥ १६७ ॥ गौरेषु गैरिकं पश्चान्नीली नीलेषु योजयेत् । क्षुरेण तीक्ष्णधारेण रेखा न्यूनाधिका हरेत् ॥ १६८॥ पाण्डुरं विन्दुजातं यत्तत्सर्व तेन कारयेत् । .. पूरितं वणेमात्रं यत्तावन्मात्रं हरेत् सुधीः ॥ १६९ ॥ . मृदुघर्षणयोगेन यथा शंखो न नश्यति । रोमराजिं सि(जिमि)तां कुर्याद्रेखां नानाविधामपि ॥ १७० ॥ वीरणः सूक्ष्मतुण्डागुमदुघर्षणयोगतः । शुद्धं सुवर्णमत्यर्थं शिलायां परिपेषितम् ॥ १७१ ॥ कृत्वा कांस्यमये पात्रे गालयेत्तन्मुहुर्मुहुः । लि(क्षि)प्त्वा तोयं तदालोड्य निहिते(तं)तज्जलं मुहुः ॥ १७२ ॥ १ A बाण । २ A न० । ३ D न्यसेत् पुनः । ४ A शाखो। ५ B जि । ६ B D ची 1 ७ F ह्य। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy