________________
.
विंशतिः ३.]
मानसोल्लासः।
पूर्व तिन्दुकया लेख्यं यद्वा वर्तिकया बुधैः। आकारमात्रिका लेखां विना वर्गलिखेत्पुनः ।। १५१ ॥ आकारजनिका लेखां तिन्दुवर्तिकनिर्मिताम् । . .. लिखेत्तामेवं लेखन्या गैरिकोद्भूतवर्णया ॥ १५२ ।। पुरस्ताद्वर्णकैः पश्चात्तत्तद्रूपोचितैः स्फुटम् । उज्ज्वलं प्रोन्नतस्थाने श्यामलं निम्नदेशतः ॥ १५३ ॥ एकवर्णेऽपि तत्कुर्यात्तारतम्यविभेदतः । अच्छश्चदुज्ज्वलो वर्णो घनः श्यामलतां व्रजेत् ॥ १५४ ॥ भिन्नवर्णेषु रूपेषु भिन्नो वर्णः प्रयुज्यते । मिश्रवर्णेषु रूपेषु मिश्रो वर्णः प्रयुज्यते ।। १५५॥ श्वेतेषु पूरयेच्छंच शोणेषु दरदं तथा । . रक्तेष्वलक्तकरसं लोहिते गैरिकं तथा ॥ १५६ ॥ पीतेषु हरितालं स्यात् कृष्णे कज्जलमिष्यते । शुद्धों वर्णा इमे प्रोक्ताश्चत्वारश्चित्रसंश्रयाः ॥ १५७ ॥
इतिशुद्धवर्णद्रव्याणि मिश्रवर्णानतो वक्ष्ये वर्णसंयोगसम्भवान् । दरदं शङ्खसाम्मश्रं भवेत्कोकनदच्छवि।। १५८ ।। अलक्तं शवसम्मिश्रं सस्य (ज्ञा-) सदृशं भवेत् । गैरिकं शबँमिश्रं च धूम्रच्छायं निरूपितम् ॥ १५९ ॥ हरितालं शवयुत चोरेश्व (टा-) सदृशप्रभम् । कज्जलं शवसम्मिश्रं धूम्रच्छायं निरूपितम् ॥ १६० ॥ नीली शवेन संयुक्ता कपोतसदृशी भवेत् । राजावतः स एव स्यादतसीपुष्पसनिमः ॥ १६१ ॥ ..
१ A तिन्दुकलेल्यं स्याद् । २ F B न D नितां । ३ A क । ४ A काढू । ५ A तं । ६ D र्णायितं कु। ७Dच्छः षडु । ८ B DF च्छेषं । ९ A छ ।-१० F जायते मधुर।--११-A विः। १२-A चोरस्य । १३ A सम्मिश्रं । १४ Fक्तं । १५ A. वेराश्व ।
Aho ! Shrutgyanam