________________
विंशतिः४]
मानसोल्लासः।
प्रागवस्थामतिक्रम्य त्वरितं प्रहरन्ति ये । गर्लगर्जश्च कुर्वन्तो नदन्ताश्च मुहुर्मुहुः ॥ ३४ ॥ लाविका ये न वीक्ष्य(क्ष)न्ते ये च सङ्कोचिताङ्गकाः । पलायनपरा ज्ञेया लावकास्ते विचक्षणैः ॥ ३५॥ एवंविधान्परिज्ञाय पलायनपरायणान् । अन्ययुद्धं समामन्त्र्य युद्धादेनान्निवारयेत् ॥ ३६॥ एकस्य चञ्च्चां भग्नायां साम्यं कुर्याइयोरपि । अक्षमत्वेन वा साम्यं द्वयोः कुर्यान्महीपतिः ॥ ३७॥ शूरस्य विजयं दद्याद्विद्वतस्य पराजयम् । इति लावकयुद्धेऽस्मिन् समयः परिकीर्तितः ॥ ३८ ॥
इति लावकयुद्धः (द्धम्)॥८॥ इदानीं मेषयुद्धस्य विनोदः परिकीर्त्यते । मेषास्तु त्रिविधा ज्ञेयाश्चोलिका जटिलास्तथा ॥ ३९ ॥ शोणवर्णास्तथा चान्ये सम्भवन्ति महीतले । भ्रुवौ पादाश्च जठरं पुच्छमास्यं श्रुतिद्वयम् ॥ १२४०॥ इति यस्य भवेत्कृष्णं चोलिकः स उदाहृतः । एतैरेव भवेच्छ्रुतैः कुँष्णश्चोत्साहचोलिकाः (क) ॥ ४१ ॥ रोमाणि स्थूलदीर्घाणि तेषां कण्ठे स्तने तथा । येन केनापि वर्णेन यस्योर्णा सर्वगात्रजा ॥ ४२ ॥ मृदुला गुम्फिता श्लक्ष्णा जटिल: स प्रकीर्तितः । बन्धुर(रः)स्कन्धदेशे तु स्थूलसँङ्गन्तशृङ्गकः ।। ४३ ॥ हस्वाणि स्थूलरोणाणि सर्वाङ्गीणानि यस्य तु । लोहितो यश्च वर्णेन शोणः स परिकीर्तितः ॥ ४४ ॥ विभक्ताङ्गोऽस्थिसारश्च शूरश्वाश(त) तुण्डकः । आवर्तः प्रोथदेशे स्याच्छतपद्या समाकृतिः ॥ ४५ ॥
१ A च । २ A च्छ । ३ A जच । ४ A क्ष्यते । ५ A न्यथु। ६ A द्धोऽथ F द्धोत्त्थ। ७ A त 4 D च्छा । ९D नौ । १० D लास्ते । ११D ताः । १२A स्थ। १३ A सङ्गक। १४A शौ । १५D कृत
Aho! Shrutgyanam