SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ विंशतिः४) मानसोल्लासः । धात्रीफलसमाकारं मस्तकं स्थूलकन्धरम् । आपाण्डुरध्रुवं इस्वलोचनं कुब्जचञ्चुकम् ॥ १२१० ॥ . . स्व(ख)राल्पपिच्छसंयुक्तं स्थूलोसू वृत्तजङ्घकम् । विशालाशितलं दीर्घचरणाङ्गुलिसन्ततिम् ॥ ११ ॥ पृथुत्रिकं महाकायं युद्धकर्मविशारदम् । ज्यैष्ठिकं तं प्रकुर्वीत लावकं वरलक्षणम् ॥ १२ ॥ अन्तज्येष्टिं प्रकुर्वीत तनो न्यूनं च लावकम् । ततोऽपि गुणतो हीनं विदधीती(ता)अयोधिनम् ॥ १३ ॥ मात्राशतेन विशेन पूर्यते तोयधारया । तावत्पात्रं प्रकुर्वीत सा नाडी कथिता बुधैः ॥ १४ ॥ एकां च योधयेन्नाडीमेकां विश्रामयेत्तथा । विश्रामनाडीः सन्त्य॑ज्य योर्धयेत्पश्चनाडिौंः॥१५॥ एवं च योधयेत्सप्त नव चैव यथाक्रमम् । हीनं मध्यं तथा ज्येष्ठं लावक धरणीपतिः ॥ १६ ॥ वितस्त्युत्सेघसंयुक्त हस्तत्रितयविस्तृतम् । किल(लि)ञ्ज कारयेनीलं वस्त्रेण परिगुम्फितम् ॥ १७ ॥.... वृत्ताकारं तथादाय भूतले खलकाकृति । अखाडै नाम तज्ज्ञेयं लावौ तत्र तु योधयेत् ॥१८॥ खारडी खारडीकेन विगरं विगरेण च । चे(वे)रसञ्चे(संवे)रसेनैव कच्छलं कच्छलेन च ॥ १९ ॥ प्रागेव लावयुद्धार्थ योधयेदग्रयोधिनम् । अन्तयेष्ठि(ष्ठि) तथा मध्ये ज्येष्ठिमं तं (मन्ते) नियोधयेत् ॥ १२२०॥ . उत्क्षिप्तोऽवस्तरो येन निजलावकदर्पतः। तस्य चेयुध्यते लावो नवनाडीकृतावधि ॥२१॥ १ A त । २ A स्वा । ३ A घे । ४ A ति । ५ A l । ६ A तो। ७ डी। ८ A न्त । .D ज । १. A काम् । ११ D कनिष्ठं । १२ D कल A का । १३D तिः । १४ A ण्डं । १५ १६ D त्पश्चेत । १७ D बलवान् दर्पतः स्वयम् । १८ D धिः । मध्ये। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy