________________
विशतिः४]
मानसोल्लासः।
w
तत्रस्थानलकोणेन कुकवाकुर्विनिर्गतः। तद्गृहे मक्षिकां वापि कीटं वा खण्डयञ्जयी ॥ ६६ ॥ पुच्छं प्रसार्य वा तत्र जानुभ्यां वा महीं स्पृशेत् । निर्गत्य पुरुष चश्वा संस्पृशन् वा जयी भवेत् ॥ ६७ ॥ जलेशस्य गृहे स्थित्वा दक्षिणं चरणं पुरः। प्रसार्य चञ्च्वा भूदेवीं स्पृशन् विजयवान् भवेत् ॥ ६८ ॥ तत्रस्थं दक्षिणं भ्रान्त्वा मुकुलीकृतपुच्छकम् । व्याघवच्चालेद्यस्तु स जयी कुक्कुटो मतः॥ ६९ ॥ विकीर्य पुच्छं तत्रस्थं चञ्च्चा पृष्टं स्पृशन्नपि । पादेन विलिखन् भूमिं जयमाप्नोति कुक्कुटः ॥१०७० ॥ तस्मादुवाट्य वदनं ग्रीवामूर्ध्वं प्रसार्य च । जृम्भते यस्तु पक्षीशस्त्वरितं विजयी भवेत् ॥ ७१ ॥ कुलायकोष्ठके तिष्ठनत्रजन घेटयन् दृशौ । शिशुवज्जृम्भमाणस्तु विजयी चरणायुधः ।। ७२ ।। आसाद्य कोष्टकं वा(प्रा)च्यमुपविश्य महीतलम् । चञ्च्वा स ताडयन पक्षी विजयं ध्रुवमाप्नुयात् ॥ ७३ ॥ तंत्रत्यो रङ्गमूर्धानं खादचञ्च्चा जयी भवेत् । साशं ( सोऽश्नन् ) दंष्ट्रांडुरं वापि कूज॑न्वाऽपि मुहुमुहुः ॥ ७४ ॥ ऐशाने कोष्ठके स्थित्वा भैरैवायुधवाससी। चक्षुर्वा संस्पृशश्चञ्च्या कुक्कुटो जयभाग् भवेत् ॥ ७५ ।। कुबेरभवने स्थित्वा निक्षिपेद्गजवत्पदम् । चञ्चुना दक्षिणे भागे भूमौ घर्षञ्जयी भवेत् ॥ ७६ ॥ अत्क्षिपन्नपि पुष्पं च मोक्षं कर्ष( पञ् ) जयी भवेत् ।
निर्गत्य शाम्भवात्कोष्ठात् भ्रमित्वा च प्रदक्षिणम् ॥ ७७ ॥ A धन्वा । २ A दुद्यम्य । ३ D ल । ४ A न्त्र । ५ D घटयेदृशौ A घटयन्दिशौ । ६ जान्यो। ७.Dी । ८D दनवावि । ९ A दष्ट्राङ्करवा । १० A जत्वा । ११ A नैर । १२ A अयावहम् ।
१३ This line is omitted in D। १४ Aठे ।
Aho ! Shrutgyanam