________________
२३३
विंशतिः ४]
मानसोल्लासः। उक्तं कक्षवडं' नाम विज्ञानं पादभञ्जनम् । सर्वाङ्गं पीडयेद्यत्र मध्यमाक्रम्य तिष्ठतः ॥ २३ ॥ सुमुखी नाम विज्ञानं सङ्कोचादङ्गसाधनम् । ऊरुभ्यां मध्यमाक्रम्य मन्यां कक्षान्तरे क्षिपेत् ॥ २४ ॥ ज्ञेयं गूढं गु( ढाड )लि म विज्ञानं कण्ठमोटनम् । पृष्ठस्थांत( न )कमास्थाय बाहूं कक्षान्तनिगतौ ॥ २५ ॥ मन्यायी सङ्गन्तौ कृत्वा करशाखानिबन्धनौ । ताभ्यां सम्पीडयेन्मन्यां कुर्वथाधोमुखं शिरः ॥ २६ ॥ ऊरुभ्यां मध्यमापीडय युज्योंगरुडपक्षकम् । पृष्ठस्थैः प्रतिमल्लस्य पृष्ठपृष्ठे भुजं बलात् ॥ २७॥ आकृष्य वर्तयन्कुर्याद्विज्ञानं वेसर्णादु( टनं बु )धः । जानुसन्धौ क्षिपेजवां पतितः स्यादवामुखम् ॥ २८ ॥ उरसा पीडयेत्पादं तदङ्गवलनं भवेत् । मन्यां कक्षान्तरे कुर्याद्वाहुं गरुडपक्षवत् ॥ २९ ॥ मध्यपीडनयोगेन भवेत्सदुपवेदनम् । एकद्विव्यङ्गुली मुक्त्वों करशाखाचतुष्ठयम् ॥ ९३० ॥ भज्यतेऽङ्गुष्ठवज्यं तद्विज्ञानं चतुरङ्गुलम् । बाहुना बाहुमाविध्य धृत्वा चान्येन मुद्धकम् ॥ ३१॥ मोठ्यते तु शिरैस्तियग्विज्ञानं तद्वधा(दा)भिधम् हस्तौ पादौ च शीर्ष च पद्भयामावेष्टय पीडनात् ॥ ३२ ॥ विज्ञानं तत्समाख्यातं डोकरं सकुटुम्बकम् । विज्ञानान्येवमुक्तानि बॅन्धमोटनकारणम् ॥ ३३ ॥
१ A टं। २ A गुधि । ३ D मु। ४ ।) ड । ५ H यक । ६ D हु । ७ D रेक्षिपेत् । ८ D याः। ९D न्मूर्धा। १. D ज्या। ११ A रुरड । १२ A स्था। १३ Dठं। १४ A स्वा । १५ A तैयः,र्धय । १६ A णेबु D नेबु। १७ D तस्यह्य । १८ D लव । १९ A न्म। २. A वै । २१ A ली। २२ A ता। २३ A द्व। २४ A माद्य । २५ A रोति । २६ A छ । २७ A स्कू । २८ A वधमोड ।
Aho! Shrutgyanam