________________
विंशतिः४]
मानसोल्लासः।
प्रसारणं च पादानामुच्चामिः स वरो रणे । सन्धित्रयेऽपि' पादानां नतत्वं गमने यदि ॥८॥ वक्रपादस्तुरङ्गोऽयं विनोदेषु प्रशस्यते । द्रुतं क्षिपति पादश्चिद्वक्रपादस्तुरङ्गमः ॥९॥ समपादो विनोदेषु प्रेक्षकाणां मनोहरः। नातीवोचैर्नातिनः पादैाति तुरङ्गमः ॥ ७१० ॥ मध्यपादः स विज्ञेयः प्रशस्तः समराङ्गणे । वक्रता मणिबन्धेषु दृश्यते यस्य वाजिनः ॥ ११ ॥ नीचपादः स विज्ञेयः प्रशस्तोऽध्वगतौ हयः । पादानां दृश्यते यस्य स्तब्धता सर्वसन्धिषु ।। १२ ॥ अध्वन्येवोपयोग्योऽसौ स्तब्धपादस्तुरङ्गमः । गम्भीरोऽस्खलितः स्निग्धो मधुरः श्रुतिकोमलः ॥ १३ ॥ वनिः प्रशस्यतेऽश्वानां स्वामिनो विजयावहः । निर्मासमायतं वक्रमक्ष्णोर्मध्ये समुन्नतम् ॥ १४ ॥ निळलीकेन भावेन वाहानां शस्यते मुखम् । श्वेते कृष्णे पिशङ्ग वा मल्लिकाकान्तिसन्निभे ॥ १५ ॥ वैडूर्यस्फटिकच्छाये पुष्परागसमप्रभे । एणोष्ट्रटिभिक्रौञ्चहंसलोचनसन्निभे ॥ १६ ॥ प्रशस्तै लोचने यस्य वाजिनस्ते शुभावहाः ।
ओष्टौं मुखं सक्कणी च सूना प्रोथस्तनुम॒दुः ॥ १७ ॥ स्तब्धावलोमशाव॑न्तर्नागवल्लीदलोपमौ । इस्वो कौँ शुभौ शीर्ष कपित्थफलसन्निभम् ॥ १८ ॥ स्कन्धः पीनो दृढः शस्तो ग्रीवा केकिगलोपमा ।
वक्षो वृत्तं विशालं च स्थूलावंसौं सुविस्तृतौ ॥ १९ ।। १ A वाहासादिनां । २ D ऽपि । ३ D नां । ४ A सु। ५ A स ५ D स्त। ७ Dठो ।
Dवा।९D शौ।
Aho ! Shrutgyanam