________________
२१४
मानसोल्लासः ।
केशेषु वदने पुच्छे वंशे पादेषु पाण्डुरः । अष्टमण्ठों (ङ्ग) लनामा च सर्ववर्णेषु शस्यते ।। ९६ ।।
श्वेतः सर्वेषु पादेषु पादयोर्वापि यो भवेत् । धौतपादः स विज्ञेयः प्रशस्तो मुखपुण्ड्रकः ।। ९७ ।।
विशालैः पट्टकैः श्वेतैः स्थाने स्थाने विराजितः | येन केनापि वर्णेन लाह इति कथ्यते ।। ९८ ॥ चित्रितः पार्श्वदेशे च श्वेतविन्दुकदम्बकैः । यो वा को वा भवेद्वर्णस्तरञ्जः कथ्यते हयः ॥ ९९ ॥
सितस्य बिन्दवः कृष्णाः स्थूलाः सूक्ष्माः समन्ततः । दृश्यन्ते वाजिनो यस्य पिङ्गलः स निगद्यते । ७०० ॥ श्वेतस्य सर्वगात्रेषु श्यामला मण्डला यदि । एके तं बहुलं प्राहुरपरे मलिनं बुधाः ॥ १ ॥ अङ्कात् कोपि (ऽति) मेधावी दिव्याचारो मिताशनः । अलङ्कारसहो गीतमानपूजाप्रियः सदा ॥ २ ॥ उत्क्षिप्य पादं द्रावी शुचिशय्यासनप्रियः । सोऽयमुत्तमसत्वः स्याच्छोभनाङ्गस्तुरङ्गमः ॥ ३ ॥
पारावतगलाभासः शक्रचापसमद्युतिः । छायं पार्थिवा ज्ञेया हयरोमसमाश्रिता ॥ ४॥
मुक्तास्फटिकसङ्काशा छायेयं वारिजा शुभा । बालार्कपद्मरागाभा छायेयं तैजसी स्मृता ॥ ५ ॥
क्षीरैः समासमा गन्धस्वेदादिषु शुभ हयः । शुभद्वीपे च हंसे च शिखितित्तिर टिट्टिभैः ॥ ६ ॥ गत्या सेमाना ये वाहा सौदिनान्ते सुखावहाः । बाहुमूले जानुसन्धौ गमने यस्य वक्रता ॥ ७ ॥
[ अध्यायः 8
१ A च । २ A रा । ३ A मुद्रकः । ४ A omits this Pada । ५ D त्माकोप । ६ A चोक्षा ।
७ D प्रज्ञा । ८ D जी । ९A भो । १० A यः । ११A शिरसि द्विणि । १२ A ससमाना । १३ A हादिनान्ते ।
Aho! Shrutgyanam