________________
विंशतिः ४ ]
मानसोल्लासः ।
ततः समागतान् सर्वान्यथामानं विसर्ज्य च । करेणुका समारुह्य प्रविशेद्राजमन्दिरम् || ६६० । उक्तोऽयं गजवाह्यालीविनोदः सोमभूभुजा । ॥ इति गजवाह्यालीविनोदः ॥ ३ ॥ साम्प्रतं वाजिवाह्यालीविनोदः प्रतिपद्यते ॥ ६१ ॥ पूर्व भूमिं परीक्षेत वाह्यालीहेतवे नृपः । अकर्दमामपाषाणां गर्तशङ्कविवर्जिताम् ।। ६२ ।। न मृीं नातिकठिनां प्रागुदीचीप्लवां शुभाम् । विशालां सुस (ष) मां श्लक्ष्णां वौह्यालीं कारयेन्त्रपः ॥ ६३ ॥
शतधन्व (न्वन्तरमितां चतुरस्रां समन्ततः । वृत्ति संवेष्टितां द्वारद्वितयेन समन्विताम् ॥ ६४ ॥
उत्तरमान्तदेशे वा समीरस्यानुकूलतः । दक्षिणप्रान्तदेशे वा कुर्याद्दर्शनमण्डपम् ॥ ६५ ॥ रचयित्वा तु वाह्यालीं विज्ञप्तो गृहकारकैः । समाहूय हयाध्यक्षमश्वानयनमादिशेत् ॥ ६६ ॥ समानीतांस्ततो वाहानवलोक्य महीपतिः । तेषां जातीः परीक्षेत देशनामविभेदतः ।। ६७ ॥ आवर्तवर्ण सत्त्वानि छायागन्धगतिस्वराः । आकारश्चाष्टधाऽश्वानां श्रेष्ठमध्यकनीयसाम् ॥ ६८ ॥ काम्बोजयवनस्तेज बहकावालास्तथा । तोखरिकाः सकेकाणा एते सप्तोत्तमोत्तमाः ॥ ६९ ॥ पोद्दाराः कान्दलेयाश्च यौधेया वाजपेयकाः । नायुजाः पारसीकाः षडेते चोत्तमा हयाः ।। ६७० ॥ तैत्तिला वर्क्सकान्धारा वामतेया ससैन्धवाः ।
सावित्राः पार्वतेयाश्च काश्मीराः सम्बितीयकाः ॥ ७१ ॥
२११
१ D सृज्य । २ D तिकथ्यते । ३ A मापा । ४ A चीं । ५ A कारयेद्धरणी । ६ AF राके । ७ A समाय । ८ D न्धि । ९ D न । १० A ही । ११ Dतु । १२ A कवा | १३D योद्धारः | १४ D त्रा । १५ D वा । १६ A द्य । १७ A नावार्मतेय । १८ A मध्यमा हयाः ।
Aho! Shrutgyanam