________________
विंशतिः ४]
मानसोल्लास।
कदलीशृङ्खला वापि यस्मिन्दृश्यान्तरान्तरा । वणेपोगरभेदेन खगजातिनिरूपिता ।। ७२ ॥ सोमेश्वरनरेन्द्रेण शस्त्रशास्त्रकलाविदा । कोशात् खङ्गं समाकृष्य बिलादाशीविषं यथा ॥ ७३ ॥ चर्म वा फलकं वापि गृह्णीयाद्वामपाणिना । पाणिना भ्रामयेत्खङ्गं चर्म वामेन चालयेत् ॥ ७४ ॥ पूर्वोक्तपदसञ्चारैः सञ्चरेत विचक्षणः । शीर्षस्योपरि संस्थाप्य खगचर्म तथोरसि ॥ ७५ ॥ दक्षिणाधिं पुरस्कृत्य स्थानं शिखरकं श्रयेत् । वामं हस्तं प्रसार्याग्रे चर्मणा फलकेन वा ॥ ७६ ॥ कर्णोपान्ते समासंज्य स्थानं कापोलकं भजेत् । वक्षस्यासज्य फलकं खड्गं तत्रैव बाह्यतः ॥ ७७ ॥ परस्यान्तरमीक्षेत श्रीवत्सं स्थानमाश्रितः । खङ्ग महीमुखं कृत्वा खङ्गागं पुरतः समम् ॥ ७८ ॥ वीक्ष्यमाणः परच्छिद्रं स्थानं भूमण्डलं भजेत् । कुक्षिदे” त्सरं कृत्वा फलं तियक्तथोरसि ॥ ७९ ॥ अग्रे प्रसार्य फलक तीक्ष्णाग्रं स्थानकं न्यसेत् ।। कडगं चरणे विन्धादोलगं दक्षिणाङ्गजे(के) ॥ ८॥ पोगरं वामभागे स्यात्कालवल्कं तु मस्तके । आनाभि कण्ठपर्यन्तं खङ्गाग्रेण तु भेदनम् ॥ ८१ ॥ मुनयनाम तत्प्रोक्तं कौक्षेयकविचक्षणैः । पारणं हननं तेषु पञ्चघातेषु पाटवम् ॥ ८२ ॥ दर्शयेट्टैचनाघातं हस्तलाघवमाचरेत् । फलके वा तथा चर्मण्य सर्व निगृह्य च ॥ ८३ ॥
A शख D F शाख । २ D F साद्य । ३ ) यो। ४ D वे । ५ D F स्यासाद्य । ६A व । . D न्यसेत् । ८ D शस्थितम् । ९ D ग्य । १० A प्र । ११ D हो । १२ D द्धननं । १३ रमे।
२१
Aho ! Shrutgyanam