________________
१५८
मानसोल्लासः।
[अध्यायः१
न्यस्तौ च पादावुक्षिप्य प्रसर्पश्च शनैः शनैः । अनुक्षेपगतिं कुर्यात् सर्पणेनं विसर्पणः ॥ ३६ ॥ पादयोहतसञ्चारैरीषदुत्क्षेपलक्षणैः। सर्पणं सर्पवत कुर्यात्सर्पिका गतिमाचरेत् ॥ ३७ ॥ आकुञ्चितैस्तथा पादैर्लीलाचक्रमणाश्चितैः। मत्तवारणवद्गच्छन्मत्तेभगतिमाचरेत् ॥ ३८ ॥ जिघृक्षया दैतं गत्वा यदुत्लुत्यापसर्पति । तां गतिं वायसीं बिभ्रद्विचरेच्छस्त्रकोविदः ॥ ३९ ॥ आकुश्चिताभ्यां पादाभ्यामङ्गुल्यो(:) स्पृशन्महीम् । वाकोटीं गतिमास्थाय सञ्चरेत्क्षुरिकाकरः ॥ ४०॥ गात्रसङ्गोचनं कृत्वा सिंहवल्लङ्घयन्धुवम् । पश्चाननगतिं कुर्वन्दर्शयेत्पाणिलाघवम् ॥ ४१ ॥ किश्चिदाकुश्चयन् शस्त्रीं किञ्चिदालोलयन्भुजम् । आवतैः परिवतैश्च तथा सव्यापसव्यकैः॥ ४२ ॥ भ्रामयेत् क्षुरिकाज़ पृष्ठे पादे तथाऽग्रतः । कक्षयोः कण्ठदेशे च पादसञ्चारसंयुतः ॥ ४३ ॥ विद्युत्पञ्जरमध्यस्थमिवात्मानं प्रदर्शयेत् । चारणे धारणे चैव धारणे मारणे तथा ॥ ४४ ॥ अमोघों दर्शयेदाशां दुर्निवारों भयङ्करः।। शस्त्री प्रदर्शयेदेवं दुष्टाशयविभीषणीम् ॥ ४५ ॥ प्रेयसी मानसोल्लासां विद्वज्जनविनोदिनीम् ।। चतुर्वितस्तिकां शस्त्रीमादाय नृपतिस्ततः॥ १६ ॥ दक्षिणाधिं पुरस्कृत्य दण्डं धृत्वा तथोरसि । पूर्ववद्भ्रामयेदेनां करतालसमन्विताम् ॥४७॥
:. १D नातिसर्पणे । २ A k। ३. A द्भु। ४ A ६ । ५ A स्त्रिं । ६ A सव्याश्च व्य F सम्यैश्च । .D शीर्षे । ८ A IS A च । १० A घा।
Aho ! Shrutgyanam