________________
मानसोल्लासः।
[अध्यायः१
शेषभोगोपमा चर्चा चन्दनेनोरसि न्यसेत् । दीपिपुच्छाजिनेनाथ कुर्याच्छिरसि शेखरम् ॥ १२ ॥ चामीकरमया(यीं) कण्ठे चारुशृङ्खलिकां क्षिपेत् । हस्तयोर्भर्मवलयौ कर्णयोः स्वर्णपत्रके ॥ १३ ॥ एवं रचितशृङ्गारो वीरमूर्तिर्मनोहरः ।। प्रविशेखुरली रम्यां प्रेक्षकैः परिशोभिताम् ॥ १४ ॥ 'विहितोचितशृङ्गारो(र:) शस्त्रविद्याविशारदम् । प्रतियोगिनमास्थार्य शस्त्रविद्या विनोदयेत् ॥ १५ ॥ वितस्तिमात्रिकाहीनं मध्यमं विहिर्नस्ति च । स्थापयित्वोत्तमां शस्त्रीं गृह्णीयाच्छिक्षया नृपः॥१६॥ अङ्गुष्ठपर्वमानेन माननीयासिधेनुका। मुष्टिभागं परित्यज्य गणयेद्वंशपृष्ठतः ॥१७॥ आयुर्लक्ष्मीम(म)ति चे(च)ति समुच्चार्य पुनः पुनः। आयुर्लक्ष्म(क्ष्मी)प्र(प)दे शस्ता वा मृत्युपदे स्थिती ॥ १८ ॥ तीक्ष्णधारा हूँढा लध्वी तिर्यग्रेखाविवर्जितौं । अभिन्नधारा नात्युच्चैनींचैस्तिष्ठेत्ससौष्ठव॑म् ॥ १९ ॥ वामं पादं तथा सव्यं प्रमृतं बाहुदण्डकम् । पुरस्कृत्यावतिष्ठेत सङ्कामेच परं प्रति ॥२०॥ समुष्टिकं बाहुदण्डं दक्षिणं क्षुरिकान्वितम् । शिरःसमं समुत्क्षिप्य भैरवं स्थानमाचरेत् ॥ २१ ॥ दक्षिणं क्षुरिकाहस्तमपसौर्य च पृष्ठतः। वामदण्डं प्रसार्याग्रे पल्लीवालं प्रदर्शयेत् ॥ २२॥ क्षुरिकाग्रे तथा दण्डं प्रसार्य पुरतः समम् ।
पुरतो नम्रगावस्तु शुनकस्थानकं न्यसेत् ॥ २३॥ १A यं । २ A र । ३ F शिल। ४ A के। ५ A परं । ६ F omits these two lines. I .Dज। ८ D प्य । ९ A तस्तिकम् । १० A घृ। ११ D करयो । । १२ D मेरु। १३ Dक्ष्मी। १४ D तिं चेति। १५ D ते। १६ A धृ। १७ A ताः। १८ A वः। १९ A चा। .
Aho! Shrutgyanam