________________
१५४
मानसोल्लासः।
[ अध्यायः २० क्रीडाभिश्च प्रियालापैः सम्भोगैस्ताश्च रञ्जयेत् । वस्त्राभरणदानैश्च पानखादनतर्पणैः ॥ १५ ॥ प्रेमनिर्भरसंलापैर्वनादिक्रीडनैरपि । तोषयेद्योषितस्तास्तास्तुष्टा भोगाय कल्पयेत् ॥ १६ ॥ भोजने मज्जने कान्ता पादाभ्यङ्गेऽङ्गमर्दने । केशसंवाहने चैव दिव्यगन्धविलेपने ॥१७॥ गीतवाद्यश्रुतौ (न)त्तप्रेक्षणे चारुदर्शने । जलादिक्रीडने चैव योजयेत्ताः सुयोषितः ॥ १८ ॥ अतोऽयमुपभोग्यत्वाद्योषिद्भोगः गोर्तितः । राज्ञः सप्ताङ्गपूर्णस्य निःशेषीकृतवैरिणः । विंशतिः प्राह भोगाना श्रीमान् सोमेश्वरो नृपः ॥ १९ ॥ कन्दर्पोत्सवहेतुमद्भुतरसमोल्लामलील स्पृशम् विद्वन्मानसरञ्जनीं जनतया सत्कीर्तितां प्रत्यहम् । साश्चर्यामुपभोगविंशतिमिमा सोमेश्वरो भूपतिवाग्देवीकुलनन्दनः कथितवान् प्रत्यर्थिभूपान्तकः ॥ १८२० ॥
इति श्री महाराजाधिराज-सत्याश्रयकुलतिलक-चालुक्याभरण-श्रीमद्भूलोकमल्लश्रीसोमेश्वरविरचिते मानसोल्लासे राज्योपभोगकथने
तृतीयोऽध्यायः समाप्तः॥
---
-
-
-
Dस्त।२D नानागुणेन । ..
Aho ! Shrutgyanam