________________
१४७
विंशतिः३]
मानसोल्लासः। एतैर्गुणैः समायुक्ता मृगीजात्योपलक्षिता । मधुवर्णाः सुकान्ताश्च नखराश्चरणोद्भवाः ॥ ३१ ॥ अङ्गुल्यः संहता रूंढ्यः (ऋज्व्यः) परिपाट्या समाः शुभाः। रक्तपङ्कजसङ्काशौ समौ पादतलौ शुभौ ॥ ३२ ॥ गूढौ गुल्फो सुवृत्तौ च जङ्ग्रे पादानुरूपके । रम्भास्तम्भानभावूरू विशालं जघनं तथा ॥ ३३ ॥ ईषद्विकसिताम्भोजसदृशं स्मरमन्दिरम् । वलित्रितयशोभाढ्यं मुष्टिग्राह्यं च मध्यमम् ॥ ३४ ॥ स्थूल श्रीफैलसङ्कगशौ स्तनावविरलौ समौ । वर्तुले बाहुशिखरे बाहू सुललितावपि ॥ ३५ ॥ सुकुमारतरौ हस्तौ तले पल्लवकोमले । मुद्गशिम्बिसमाकाराः करशाखा मनोरमाः ॥ ३६ ॥ पद्मपत्रसमच्छायमधुराः करजा वराः। नातिस्थूला नातिदीघों न इस्वा सुस(ष)मा शुभा ॥ ३७ ॥ ग्रीवा रेखात्रयोपेता बिम्बीभागनिभोऽधरः । पकदाडिमबीजाभा दन्ताः कान्तिमनोहराः ॥ ३८ ॥ तिलपुष्पसमाकारा नासिका सुमनोहरा। नीलोत्पलस्य नालेन समे श्रवणगे(पा)लिके ॥ ३९ ॥ शोभने श्रवसी गण्डौ समावुज्वलकान्तिकौ । कुन्दपत्रोदरासीनशुभ्रभ्रमरसन्निभे ॥ १७४० ॥ लोचने प्रान्तसंरक्ते घनश्यामलपक्ष्मणी । सन्त्रस्तब(बा)लसारङ्गभङ्गीचञ्चलमीक्षणम् ॥ ४१॥ अधिज्यकामकोदण्डकुटिले सन्नते ध्रुवौ । अष्टमीचन्द्रसङ्काशं ललाटं सुमनोहरम् ॥ ४२ ॥
.... १D रुज्वः F शब्द्यः । २ D घनं । ३Aप । ४D नौ च । ५ D माकारा। ६ D कारे शुभ्रताम्ररसान्तरे।
Aho! Shrutgyanam