SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ विंशतिः। मानसोल्लास। वंशाङ्करं लघु चक्रीं शतावर्यास्तथैव च । पातालटेण्टुंकानां च प्ररोहान्क्षालितान्मृदून् ॥ ६१ ॥ सलिले लवणोपेते तैले वाऽपि सराजिके । लवणेन समायुक्त प्रक्षिपदकुरानिमान् ॥ ६२ ॥ मागिणीमाकं पैष्टुं कचोरं वनमागिणीम् । कर्पूरमागिणीमूलं तयैवाम्लहरिद्रका ॥ ६३ ।। सूरणं मधुशिग्रं च तथा बिलकन्दकम् । एतानि पूर्ववत्कृत्वा तैले वापि विनिक्षिपेत् ॥ ६४ ॥ गव्यं वा माहिषं वापि क्षीरं नीरविवर्जितम् । पचेत्स्थाल्यां मृदावनौ दर्वीघट्टनसंयुतम् ॥ ६५ ॥ अँर्धावशेष कुर्वीत त्रिभागेनावशेषितम् । षड्भागशेषितं वाऽपि कुर्यादष्टावशेषिकम् ॥ ६६ ॥ अर्धावशिष्टं पाने स्यात्रिभागं लेाकं भवेत् । षड्भागं पिण्डतामेति शर्करा स्यादथाष्टमे ॥ ६७ ॥ अंधविशेषिते दुग्धे तक्रमीषद् विनिक्षिपेत् । नवस्थाल्यो न्यसेत्तत्तुं निवाते स्थापयेच्च ताम् ।। ६८ ॥ शर्करामिश्रितं वापि फैलैवापि विमिश्रयेत् । यामषट्कोषितं क्षीरमम्लतां घनतां भजेत् ॥ ६९ ॥ दधीति नाम प्राप्नोति पथ्यं मृष्टं मनोहरम् । हीनकाले तथा पथ्यं चिरकालेऽम्लता बहु ॥ १५७० ॥ मन्थानेन मथित्वा तन्नवनीतमयो हरेत् । निर्जलं मथितं प्रोक्तमुदस्वित्या (विच) जलार्धम् ॥ ७१ ॥ पादाम्बु तक्रमुद्दिष्टं धूपितं हिडजीरकैः । आर्द्रकेण समायुक्तमेलासैन्धवचूर्णितम् ॥ ७२ ॥ १D व । २ D तालं A तलं आर्द्रा । ३ A ण्ड । ४ F ये । ५ D रो। ६ D वष्ठ । ७ A आर्दा । A ष। ९ A आर्दा । १० A ष्ट । ११ A आर्दा। १२ D तन्तु । १३ D तम्। १४ F क। "Dr। १६ A त्याच । १७ A द्धि । - Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy