________________
मानसोल्लासः।
[ अध्यायः
यथारुचि यथाशोभं प्रेयस्याश्चित्तसम्मतम् । धत्ते यद्भूषणं राजा भूषाभोगः प्रकीर्तितः ॥ ३१ ॥ भूषाभोगोऽयमाख्यातः सोमेश्वरमहीभुजा ।
इति भूषोपभोगः ॥ ८ ॥ सम्प्रत्यासनभोगश्च कथ्यते राजवल्लभः ॥३२॥ चम्पकाम्रमधूकानां पनसौदुम्बरस्य च । पीठानि सुविशालानि चतुष्पदयुतानि च ॥ ३३ ॥ आयतं चतुरस्रं च काञ्चनेनोपशोभितम् । श्लक्ष्णं मनोहरं पीठं मङ्गलासनमुत्तमम् ॥ ३४ ॥ श्रीपरिचितं रम्यं हस्तमात्रायु(य)तं शुभम् । अरनिविस्तृतं पीठं पवित्रासनमुच्यते ॥ ३५ ॥ शाकदारुमयं भव्यं दृढं श्लक्ष्णं सुविस्तृतम् । चतुःपादयुतं पीठं मज्जनासनमीरितम् ॥ ३६ ॥ इष्टकानिर्मितं पीठं पृष्ठौंधारेण संयुतम् । सुधाकुट्टिमशोभान्यं मजने पीठमीरितम् ॥ ३७ ॥ कार्यसपूरितं वृत्तं छागीपट्टींवगुण्ठितम् । . हंसपिच्छभृतं वापि गदि दि)कारव्यं सुखासनम् ॥ ३८ ॥ छागचर्ममयं रक्तागर्भ सुविस्तृतम् । नानावणेविचित्रं तदासनं पट्टगद्दिका ॥ ३९ ॥ तस्योपरि च विन्यस्तं हंसपिच्छैः सुपूरितम् । सितपट्टेपिनद्धं च श्वेतपच्छदसंयुतम् ॥ ११४० ॥ सङ्गीतकप्रसङ्गे च गजवाजिविनोदने । सर्वदा सुखसंवासे भूशय्यासनमुत्तमम् ॥ ४१ ॥ पञ्चभिः सप्तभिर्वापि नवभिलोहजैः पदैः । लोहपट्टकृताधारैर्लोहजालकमूर्धनि ॥ ४२ ॥
फ । २D विचि । ३ F टि । ४ Dछ । जि । ६ F पादा । ७ D पूर्ण। ८ F सपूर्णि ।
_ ९F1
Aho ! Shrutgyanam