SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः । अष्टबाहोरेर्मूर्तेरायुधानि वदाम्यहम् । नन्दश्च गदा वाण (:) पद्म (अं) दक्षिणबाहुषु ।। ६९५ ।। शङ्खो धनुस्तथा चक्रं खेटकं वामबाहुषु । त्रिविक्रमो नृसिंहश्च दशतालौ प्रकीर्तितौ ।। ६९६ ॥ वामनः सप्ततालस्तु विप्रमूर्तिर्हरिच्छविः । कृष्णाजिनोपवीती स्याच्छत्री धृतकमण्डलुः ।। ६९७ ॥ कुण्डली शिखया युक्तः कुब्जाकारो मनोहरः । श्रीरामश्च वराहश्च दशतालाबुदाहृतौ ।। ६९८ ॥ रामस्तु द्विभुजो लेख्यः शरचापधरो विभुः । नृवराहं प्रवक्ष्यामि सुकरास्येन शोभितम् ।। ६९९ ।। गदापद्मधरं धात्रीं दंष्ट्राग्रेण समुद्धृताम् । बिभ्राणं कूर्परे वामे विस्मयोत्फुल्ललोचनम् ।। ७०० ।। नीलोत्पलधरां देवीमुपरिष्टात्प्रकल्पते(येत् ) । दक्षिणं कटिसंस्थं च बाहुं तस्याः प्रकल्पयेत् ॥ ७०१ ॥ कूर्मपृष्ठे पदं चैकमन्यन्नागेन्द्रमूर्धनि । अथवा सूकराकारं महाकायं कचिल्लिखेत् ।। ७०२ ।। तीक्ष्णदंष्ट्राग्रघोणास्यं स्तब्धकर्णोर्ध्वरोमकम् । नरसिंहाकृतिं वक्ष्ये रौद्रसिंहमुखेक्षण ( णा) म् ॥ ७०३ ॥ भुजाष्टकसमायुक्तं (क्तां) स्तब्ध पानसयत्प्रभुम् (पीतसटाप्रभाम् ) । हिरण्यकशिपुं दैत्यं दारयन्तीं नखाङ्कुरैः ।। ७०४ ।। ऊर्वोरुपरि विन्यस्य खड्गखेटकधारिणी । तस्यान्त्रमालां निष्कृष्य बाहुयुग्मेन विभ्रतीम् ।। ७०५ ॥ आकारं पुरुषस्यैव धारयन्तीं मनोहराम् । अधःस्थिताभ्यां बाहुभ्यां घा (दा) रयन्तीं प्रकल्पयेत् ॥ ७०६ ॥ ६१ १ A ह । २ A पु । ३D न । D तज्जपीनसयत्प्रभम् । ५A न्तं F न्ती । ६ Aणं Fणी । ७ Fन्ती । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy