________________
विंशतिः३]
मानसोल्लासः।
उरुश्च परपादस्य जैडावर्धे(ते) न लुप्यते । अक्षि(भि)पार्णिश्च निखिलौ पूर्वपादेन दर्शितौ ॥ ५०१॥ वितस्तिः पूर्वपादस्य दैर्घ्यम निरूप्यते । साचिवल्लिख्यते तज्ज्ञैरङ्गुष्ठो लुप्यते मनाक् ॥ ५०२॥ ब्रह्मसूत्रात्परे भागे शीर्षमेकादशाङ्गुलम् । उत्सेधस्य तथाचोर्ध्वं शीर्ष स्यात्सार्धमङ्गुलम् ।। ५०३ ।। उत्सेधस्य तथापाङ्ग मस्तकं व्यङ्गुलं भवेत् । तत्प्रदेशाच्छिरःपृष्ठं लेख्यं सप्तभिरनुलैः ॥ ५०४ ॥ शङ्खस्थाने समे चोर्ध्वं निम्नं किञ्चिच्छिरो भवेत् । ततः शिरोगता लेखा धन्वाकारा प्रर्लिख्यते ॥ ५०५॥ ब्रह्ममूत्रात्परे भागे ताँल(लुस्यादङ्गुलत्रयम् । भूलेखा यवमाना तु तत्पमाणां विलिख्यते ॥ ५०६॥ नासामूलं ब्रह्मसूत्रादर्धमात्रं पुरःस्थितम् । कनिनी द्वियवा दृश्या करवीरो न दृश्यते ॥ ५०७ ॥ द्वियवः श्वेतभागश्च दृश्यते तदनन्तरम् । दृश्यते त्रियवं तत्र लोचनं कृत(कृष्ण)मण्डलम् ॥ ५०८ ॥ श्वेतापागो(तभागो)प्यपाङ्गस्थः समग्रं परिदृश्यते । समग्रो दृश्यते कर्णो यवद्वितयवर्जितः ।। ५०९ ॥ कर्णावर्ताद्धहिः शीर्षपृष्ठं दृश्यं ततोऽङ्गुलम् । कर्णपालीबहिर्देशे पृष्ठकेशान्तको मनाक् ॥ ५१० ॥ अर्धाङ्गुलप्रमाणेन दृश्यते चित्रलेखने"। शङ्खकोंगल(सः कपोलो )गण्डश्च दृश्यते पूर्णपण्डलः ॥ ५११ ॥ ब्रह्मसूत्रात्परेभागे भवेन्नासापुटोङ्गुलम् । अर्ध प्रदृश्यते गोजेरोष्ठांध तु यवाधिकम् ॥ ५१२ ॥
१ A दैर्ध्यमत्रनिरूप्यते । २ BD F ति। ३ । मञ्। ४ D ष्टौ। ५ D शीर्षमेकादशाङ्गुलम् । A ले। ७ A ना। - A णं । ९ A. ने कुच। १० F. का । ११ A नैः । १२. A कापोलगण्डस्य D कागोलगण्डश्च। १३ । १४ A लात् । १५ D. शेषा ।
Aho! Shrutgyanam