________________
मानसोल्लासः .
[विंशतिः १ अवत्सायाः पयो धेनोर्दशाहाभ्यन्तरे च यत् । वत्सान्तरमनविन्याः क्रान्ताया उपमेण च ॥५१॥ आविकं कारभं क्षीरमपेयं परिकीर्तितम् । अभक्ष्यभक्षणेऽपेयपाने च नरकं व्रजेत् ॥ ५२ ॥
इत्यभक्ष्यवर्जनाध्यायः ॥ ४ ॥ सपदि वीक्ष्य चाम्यस्य रूपं शौर्यमुदारताम् । कलाकुशलतां शीलं सौभाग्यं गुणसम्पदः ॥ ५३॥ . असहिष्णुभवेद् यस्तु स याति यमन्दिरम् । लोके च निन्द्यतां याति नासहिष्णुर्भवेत् ततः ॥ ५४॥
इत्यसूयावर्जनाध्यायः ॥ ५ ॥ महापातकदुष्टानां लिगिनां धर्मलोपिनाम् । चन्डालान्त्यजजातीनां संसर्गात पतितो भवेत् ॥ ५५ ॥ तस्मात् पतितसङ्केन नरः पतति रौरखे। लोके चाशस्यतां याति तस्मात् तं परिवर्जयेत् ॥ ५६ ॥
इति पतितसङ्गानाध्यायः ॥६॥ क्रोधो नाशयते बुद्धिमात्मानं च कुलं धनम् । धर्मनाशो भवेत् कोपात् तस्मात् तं परिवर्जयेत् ।। ५७ ॥
इति क्रोधवर्जनाध्यायः ॥ ७॥ आत्मानं स्तौति यो मोहाज्जीवनापि मृतो भवेत् । परत्र यातनां याति तस्मात् तत् परिवर्जयेत् ॥ ५८॥
इति स्वात्मस्तुतिवर्जनाध्यायः ॥ ८ ॥ श्रोत्रियाय दरिद्राय शीलाचारयुताय च। पुराणवेदविदुषे दान देयं कुटुम्बिने ॥ ५९॥
Aho ! Shrutgyanam