________________
मध्यायः २०] मानसोल्लासः।
१२५ देशजाः पशवः सर्वे गृह्यन्ते सहसा बलात् । दण्डोऽसौ गोग्रहो नाम विख्यातः परभूमिषु ॥ १०४० ॥ गर्भेषु पिहितं धान्य क्षेत्रसस्यशिखाईतम । आपणे पुचितं यच्च खले राशीकृतं च यत् ॥ १०४१॥ तत् सर्वे हीयते यत् तु रिपुराष्ट्रषु संस्थितम् । दण्डोऽसौ धान्यहरणो देशदुर्भिक्षकारकः ॥ १०४२ ।। कुटुम्बिनो गृहस्था ये धनिका व्यवहारिणः । नीयन्ते यत्र बद्ध्वा ते बन्दिग्राहः स उच्यते ॥ १०४३ ॥ जनानामभयं दत्त्वा तत्र स्थित्वा तथाऽन्यजम् । आत्मसात् क्रियते राष्ट्रं स दण्डो देशहारकः ॥ १०४४ ॥ आक्रम्य सैनिकामान् बलात् कृत्वा मुसङ्गतिम् । आहरेत काश्चनं दण्डो बला(धना)दानः स उच्यते ॥१०४५॥ महत्या सेनया युक्तः ख्यातं नगरपट्टनम् । आवेश्च लप्यते पत्र धन-धान्य-गवादिकम् ॥ १०४६ ॥ लोहमाण्डानि वस्त्राणि गृहोपकरणानि च । यस्माच गृह्यते सर्वे सर्वस्वहरणो हि सः ॥ १०४७ ॥ चतुरस्सं लिखेत् तज्जः कोटचक्रं विराजितम् । तत्र न्यासं प्रकुर्वीत नक्षत्राणां यथाक्रमम् ॥ १०४८॥ सर्वेष्चीशानकोणेषु कृत्तिकादिचतुष्टयम् । अन्तर्विल्लिखेत् तत्र कोटचक्रे विचक्षणः ॥ १०४९ ॥ विनिर्गरछस्तथा लेख्य पुनर्वस्वादिकत्रयम् । पूर्वस्यां दिशि चाऽऽयकोणादन्तर्विशंस्तथा ॥ १०५० ॥ चतुष्टयं मपादीनां पुनर्निर्ममतो लिखेत् । चित्रादित्रितयं याम्ये नैर्ऋतेऽन्तर्विल्लिखेत् ॥ १०५१ ॥ १ B 'खापहं, CE खापहतं ।
-
Aho ! Shrutgyanam