________________
मानसोल्लासः।
[विंशतिः २ अर्थभारमदानेन स्वाधिकारकुलेन च । अलन्धवेतनत्वेन द्रव्यापहरणेन च ॥ १००५ ॥ द्विषतां कारणैरेभिर्विरक्ता ये च मन्त्रिणः । अमात्याः सचिवाश्चैव तथा सामन्तमान्यकाः ॥ २००६ ॥ भृत्याश्च वान्धवाश्चैव ये चान्तर्वतिनो जनाः। युद्धबुद्धिसहाया ये तेषां दानं प्रयोजयेत् ॥ १००७॥ अन्ये ये लोभसंयुक्ता व्यसनासक्तचेतसः । तेभ्योऽपि दानं युजीत नृपः शत्रुजिघांसया ।। १००८ ॥ एवं रागविहीना ये स्वकीया सचिवादयः । तेषामपि प्रयुञ्जीत दानं राज्याभिवृद्धये ॥ १००९ ॥ अभीष्टं हायनं देश्यं करजं दन्ति-समिजम् । ग्रामजं शासनं भूषा वसनं प्रतिपत्तिजम् ॥ १०१० ॥ आकरं रुक्मजं कन्या वैश्यं लाकरं तथा । उपपदानमेवं तु प्रोक्तं षोडशवा बुधैः ॥१०११ ॥ यस्मै यत् रोचते वस्तु तस्मै योग्यानुसारतः। यद् दीयते तदाख्यातमभीष्टं दानमुत्तमम् ॥ १०१२ ॥ एकं संवत्सरं यावत् कुटुम्बभरणक्षमम् । यस्य यद् दीयते तस्य तद् दानं हायनं स्मृतम् ॥ १०१३ ॥ राष्ट्र प्रदीयते यत् तु तद् दानं देश्यमुच्यते । राष्ट्रोत्यकरदानं यत् तत् स्मृतं करनं बुधैः ॥ १०१४ ॥ वारणस्य पदानं यत तद् दानं दन्तिसंज्ञितम् । हयस्य दानपाख्यातं सप्तिजं नीतिकोविदः ॥ १०१५ ॥ अगृहीतकरो वाऽपि प्रगृहीतकरोऽपि वा। ग्रामः प्रदीयते यत तु तद् दानं ग्रामजं मतम् ॥ १०१६ ॥
Aho ! Shrutgyanam