________________
महाविद्या विवरणम् । (भुवन० )-अथ व्यावृत्त्यचिन्ता । शब्दोऽत्तिधर्मवानितीति । वर्तनं वृत्तिः , न विद्यते वृत्तिः यस्य सोऽवृत्तिः, स चासौ धर्मश्च, तद्वान् शब्द इति व्याघातः । तदर्थ नित्यावृत्तीत्यादि । व्याघातस्य पूर्वोत्पादितस्य निवृत्त्यर्थ नित्यपदं प्रक्षिप्तम् । तथा सति नित्यावृत्तिधर्मवानिति जातम् । तथापि शब्दत्वेन सिद्धसाधनम्, तदर्थ शब्दपदं प्रक्षिप्तम् । अथ पराशङ्कामुद्भाव्य तां निराकुरुतेतथापि शब्दत्वमित्यादि । तथापि एवं क्रियमाणेऽपि शब्दत्वं शब्दे वर्तते, नित्ये आत्मादौ च न वर्तते इति युगलावृत्तित्वेन शब्दनित्यावृत्ति भवति । तस्मात्तेन सिद्धसाधनमिति न च वाच्यम् । नित्यपदसमानाधिकरणमित्यादि । शब्दश्चासौ नित्यश्चेत्येवं नित्यपदेन समानाधिकरणं नित्यपदसमानाधिकरणम् । किं तदित्याह-शब्दपदम् । तत् किं करोतीत्याह-व्यावर्तयति । कां कर्मतापन्नाम् । स्वनिष्ठामनित्यताम् । अयमर्थः-यदि शब्दनित्यपदयोर्विशेषणविशेष्यभावोजातः, तदा शब्दः स्वस्मादनित्यतां व्यावर्तयत्येव । शब्दनित्ये वतेयतीत्यादि । अत्र पूर्वप्रस्तुतं शब्दत्वं कर्म नित्यपदसमानाधिकरणं शब्दपदं कर्तृ शब्दनित्ये वर्तयति । तथा च सति शब्दत्वं शब्दरूपे नित्ये यदि वर्तते, तदा शब्दनित्यावृत्ति तन्न स्यात् । अनुमाने च शब्दनित्यावृत्तीत्युक्तम् । तस्मान्न सिद्धसाधनमिति सर्वमनवद्यमित्यर्थः । अथ व्याप्तिः-यो यः प्रमेयः स स शब्दनित्त्यावृत्तिधर्मवान् यथा घटाकाशादिः । शब्दरूपो यो नित्यः, तत्र न वर्तन्ते ये धर्माः घटत्वाकाशत्वादयः, तद्वान् घटाकाशादिरित्यर्थः । इति पञ्चदशोदाहरणम् ॥
(अथ षोडशानुमानम् ।) अथ पुनरपि प्रथममेवानुमानं साध्याश्रयविपक्षव्यावर्तनेन भङ्गयन्तरेण दर्शयति-अपक्षेति।
१६ अपक्षसाध्यवद्धृत्तिविपक्षान्वयि यन्न तत् ।
साध्याश्रयविपक्षान्यविपक्षे व्यतिरेकभाक् ॥१०॥ यथा-शब्दः शब्देतरानित्यनित्यावृत्याकाशान्यनित्यमात्रवृत्तित्वानधिकरणाकाशधर्मवान्।
इति षोडशानुमानात्मकदशश्लोकीमहाविद्यासूत्रं समाप्तम् ॥ अस्यायमर्थः-अपक्षः पक्षादन्यो यः साध्यवान् सपक्षातवृत्ति विपक्षवृत्ति च यन्न भवति, यच्च साध्याश्रयो यो विपक्षः आकाशः तस्मादन्यो यो विपक्षो नित्यमानं तदृत्ति न भवति । तथाभूतं धर्मान्तरं वास्तवे पक्षे साध्यते इति संबन्धः। - अथ पदयोजना-अत्र शब्देतरानित्येत्यनेन अपक्षसाध्यववृत्तीति व्याख्यातम् , नित्येत्यनेन विपक्षान्वयीति, अवृत्तीत्यनेन यन्नेति, आका
माधान
Aho ! Shrutgyanam