________________
महाविद्याविवरणम् ।
१७९ - (अथाष्टमानुमानम् ।) (भुवन०)-पुनरपि सकतकत्वसाधनव्याजेनेत्यादि । अयमत्र सकर्तृकत्वसाधनोपायो दर्यमानोऽस्ति । अनेन प्रकारेण अकर्तृकत्वपौरुषेयत्वापौरुषेयत्वाद्यपि सर्व साधनीयम् । पक्षापक्षेतीति ।
" पक्षापक्षविपक्षान्यवर्गादेकैकमुद्धृतम् ।
भिन्नं साध्यवतस्तद्वदुद्धृतावधिमेदिनः" ॥८॥ भिन्नं साध्यते इत्यादि । मूलानुमानापेक्षया पक्षादयो ग्राह्याः । अत्र पक्षमध्यादकुरः सपक्षमध्यात् घटश्च द्वावुद्धृतौ । तत्रानेन अनुमानेन सकर्तृकत्वसाध्यवतः अङ्कुराद्धटस्य भिन्नत्वं साध्यम् । तद्वदुद्धृतावधिमेदिन इति । तद्वान् सकर्तृकत्वसाध्यवान् यो घटादिः, स एव प्रत्यवधित्वेन प्रतियोगित्वेन भेदो यस्य अङ्कुरादेः साध्यवतः, स तद्वदुद्धृतावधिभेदी, तस्मात्तद्वदुतावधिमेदिनः । एतेन सपक्षस्यैव पक्षत्वं सूचितमिति । यदि सकर्तृकादङ्कुरात् घटो भिन्नः साध्यते, तदा मूलानुमानसपक्षस्य घटस्य पक्षत्वं सूचितमेवेत्यर्थः ।
अथानुमानम् । अयं घट: एतद्भुटाङ्कुरान्यान्यसकर्तृकान्यः मेयत्वादाकाशादिवत् । तथा चायमर्थः इत्यादि । अयं घटः इति पक्षः । एतद्घटाङ्कुरादन्यद्विश्वम्, तस्मादन्यत्सकर्तृकं, एसहयान्यतमत् । तच्चैतझुटो वा अङ्करो वा। तत्रायं घट: एतस्मात् घटादन्य इति घटते न । नहि कोऽपि स्वस्मात् भिन्नः । परापेक्षयैव सर्वस्य भिन्नत्वात् । अतोऽङ्कुरात् सकर्तृकात् पक्षीकृता(टोऽन्यः इति परिशेषादागच्छति । सकर्तृकादकरादन्यत्वं घटस्य यदि च सिद्धं, तर्हि अङ्करः सकर्तृको जातः एव । अङ्कुरस्योपलक्षणत्वात् । भूभूधरादेरप्यनेनैवानुमानेन सकर्तृकत्वं साधनीयम् । तस्य च कर्ता स एव ईश्वरैः इतीश्वरसिद्धिः।
अथ व्यावृत्त्यचिन्ता-घटः सकर्तृकादन्यः इति कृते पटाद्यन्यत्वेन सिद्धसाधनम् । तदर्थमेतद्धटान्यसकर्तृकान्य इति कृतम् । तथापि सिद्धसाधनं तथैव इत्यङ्करपदप्रक्षेपः । तथा चैवमनुमानं स्यात्-घटः एतद्धटाकुरान्यसकर्तृकान्यः । तथापि पटाद्यन्यत्वेन सिद्धसाधनं तथैवेति द्वितीयान्यपदोपादानम् । अयं घटः एतद्धटाकुरान्यान्यधर्मवानित्येतावन्मात्रे क्रियमाणे घटत्वेन सिद्धसाधनं, अड्डरत्वेन च व्याघातः । तदर्थमेतद्धटाकुरान्यान्यसकर्तृकधर्मवानिति कृतम् । तथापि सिद्धसाधनं तवस्थमेवेति अन्यपदप्रक्षेपः । इति व्याव
या॑नि । अथवा प्रकारान्तरेणान्वयः क्रियते-एकैकमुद्धृतं भिन्नं साध्यते । किम्भूतम् । तद्वत् साध्यवत् । सकर्तृकत्वधर्मयुक्तमित्यर्थः । एतेन सपक्षस्य पक्षत्वमपि सूचितं भवति । इति अष्टमानुमानं समाप्तम् ॥
१. कर्तृकत्वं ए' इति ध पुस्तकपाठः । २ एव ईश्वरः सिद्धः । इति ध पुस्तकपाठः । ३ 'व्या. वर्मचिन्ता । अथवा इति ख पुस्तकपाउः ।
Aho! Shrutgyanam