________________
१७६
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । योगिता नित्यत्वस्य पक्षीकृतस्य साध्यते इत्यर्थः । इदमुक्तं भवति । नित्यत्वान्योन्याभावव्यतिरिक्तशब्दगताभावप्रतियोगित्वमनित्यत्वविरुद्धस्य नित्यत्वस्य साध्यते । अथैतदनुमानम्-नित्यत्वं स्वप्र. तियोगिकान्योन्याभावातिरिक्तशब्दगताभावप्रतियोगि मेयत्वात् घटवत् आकाशादिवद्वा।
अथ व्यावृत्त्यचिन्ता-अत्र नित्यत्वं शब्दगताभावप्रतियोगीति कृते अन्योन्याभावेन सिद्धसाधनम् । तदर्थमन्योन्याभावान्येति । तथापि घटः शब्दो न भवतीति घटप्रतियोगिकोऽन्योन्याभावस्तदतिरिक्तः शब्दगतोऽभावः शब्द नित्यत्वान्योन्याभावः एव भवति । तत्प्रतियोगित्वसाधने सिद्धसाधनम् । तदर्थ स्वप्रतियोगिकेति पदम् । नित्यत्वं स्वप्रतियोगिकान्योन्याभावातिरिक्तमित्युक्ते सिद्धसाधनम् । तदर्थ शब्दगताभावप्रतियोगीति कृतम् । श्लोकेऽन्येति पदं सामान्याभिप्रायेणेति बोद्धव्यम् । इति षष्ठानुमानम् ॥
(भुवन०)-अथ व्यावृत्त्यानि । नित्यत्वं शब्दगताभावेत्यादि । शब्दगतान्योन्याभावं प्रति नित्यत्वस्य प्रतियोगित्वात् सिद्धसाधनम् । तदर्थमन्योन्याभावान्येति । तथा च सति अन्योन्याभावातिरिक्तशब्दगताभावप्रतियोगीति जातम् । तथापि घटः इत्यादि । घटः शब्दो न भवतीति घटप्रतियोगिकान्योन्याभावोऽपि शब्देऽस्ति । तस्माद्धटप्रतियोगिकान्योन्याभावादतिरिक्तो भिन्नः शब्दस्थो ऽभावो नित्यत्वप्रतियोगिकान्योन्याभावः एव स्यात् । नित्यत्वस्य तत्प्रतियोगित्वसाधने सिद्धसाधनम् । तदर्थ स्वप्रतियोगिकेतिपदम् । तथाच सति स्वप्रतियोगिकोऽन्योन्याभावो निषिद्धः । अन्ततो व्यावृत्त्यचिन्ताकृता। अथादितो व्यावृत्यचिन्तामाह-नित्यत्वं स्वप्रतियोगिकान्योन्याभावेत्यादि । नित्यत्वे नित्यत्वप्रतियोगिकान्योन्याभावादन्यत्वस्य स्वयमेव सिद्धत्वात् सिद्धसाधनमित्यर्थः । अत्र नित्यत्वस्य शाश्वतत्वात् प्रागभावप्रध्वंसाभावौ न सम्भवतः एव । -स्वप्रतियोगिकान्योन्याभावातिरिक्तेतिपदेन चान्योन्याभावो निषिद्धः । शेषस्तु अत्यन्ताभावः एवावशिष्यते । अभावश्च प्रतियोगिनं विना न संभवति । " प्रतियोगिज्ञानाधीनज्ञानः अभावः इंति वचनात् । ततश्च नित्यत्वस्य शब्दगतात्यन्ताभावप्रतियोगित्वे शब्दस्यानित्यत्वं सिद्धम् । अत्र नित्यत्वप्रतियोगिकान्योन्याभावातिरिक्तशब्दगतात्यन्ताभावप्रतियोगिवं घटाकाशशब्दादिष्वपि विद्यते एव । शब्दत्वश्रावणत्वादिषु च शब्दगतान्योन्याभावप्रतियोगित्वमिति तेषां सर्वेषां सपक्षखा श्लोके अन्येतिपदं सामान्याभिप्रायेणेत्यादि । अत्र कारिकायां तत्तादात्म्यनिषेधान्येत्यत्र अ. न्येति पदं यदुक्तं तत्सामान्याभिप्रायेण । तेनान्यपदस्थाने अतिरिकादयोऽपि शब्दाः ज्ञेयाः । तस्मादेव स्वप्रतियोगिकान्योन्याभावातिरिक्तेति प्रोक्तमनुमाने । इति षष्ठानुमानम् ॥
(अथ सप्तमानुमानम् ।) इदानीं भेदसाधक प्रकारं दर्शयति-स्वीकृतेति ।
७ स्वीकृतानन्यवृत्तित्वसंपन्नान्यत्वसाधनम् ॥ ५॥ शब्दाधिकरणं शब्दाधिकरणादन्यत् ।
Aho ! Shrutgyanam