________________
१४६
भुवनसुन्दरसूरिकृतटीकायुतं
किमनित्यत्वेन व्याप्यत्वं । यत्र यत्र महाविद्यासाष्यं तत्र तत्रानित्यत्वमिति भावः । अनित्यत्वे - नेति । अनित्यत्वं विना महाविद्यासाभ्यं नोपपद्यते एवेत्यर्थः । प्राक्तनं प्रति जल्पति - नाघ इति । गगनादौ महाविद्यासाध्यसत्त्वेऽप्यनित्यत्वस्य अभावाव्याप्तिभङ्गः इति हृदयम् । द्वितीयमपवदति - नापीति । युक्तिं खेटयति - तेन विनेति । तेन अनित्यत्वेन विनापि गगनादौ भवतो वर्तमानस्य महाविद्यासाध्यस्य तेन अनित्यत्वेन विना यदनुपपद्यमानत्वं तस्यासिद्धेः । अयमाशय: - अनित्यत्वेन विनापि गगनादौ महाविद्यासाध्यसद्भावान्महाविद्यासाध्यस्य अनित्यत्वेन विना अनुपपद्यमानत्वमसिद्धमिति । अथ परः आरेकते - पक्षीकृतेति । पक्षीकृतेत्यादिसाध्यस्य पक्षीकृतशब्देन सह संसगोंऽनित्यत्वेन व्याप्यः, अनित्यत्वेन विनानुपपद्यमानो वेति परारेकार्थः । पूर्वपक्षिणो के सिद्धान्ती आह— न । तस्यापीति । तस्यापि पक्षीकृतेत्यादिमहाविद्या साध्यपक्षीकृतशब्दसंसर्गस्यापि उभयसंसर्गिणौ महाविद्यासाध्यपक्षरूपौ तत्र निष्ठतया, पक्षीकृतेत्यादिसाध्ये नित्ये शाश्वतेऽपि वर्तमानत्वेन अनित्यत्वेनाव्याप्यत्वात् तेनानित्यत्वेन विनाप्युपपद्यमानत्वाच्चेति पदाक्षर - योजना । अयं तत्त्वार्थः । संसर्गस्य द्विष्टत्वान्नित्येऽपि महाविद्यासाध्ये वर्तनादनित्यत्वस्य च तत्रावर्तनाद्यत्र प्रकृतसंसर्गः तत्रानित्यत्वमिति व्याप्तिभङ्गात्प्रकृतसंसर्गस्यानित्यत्वेन व्याप्यत्वं न घटाकोटमाटीकते । तथा अनित्यत्वं विनापि प्रकृतसंसर्गस्य अनित्ये महाविद्यासाध्ये वर्तनादनित्यत्वेन विना अनुपपद्यमानत्वमपि न जाघट्यादिति ।
पूर्वपक्षी आक्षिपति - पक्षीकृतेति । पक्षीकृतेत्यादिमहाविद्यासाध्यवत्त्वे सति यत्पक्षीकृतशब्दत्वं तत् अनित्यत्वेन व्याप्यं, अनित्यत्वेन विना अनुपपद्यमानं वेत्यर्थः । अत्र हि शब्दस्यानि - त्यत्वं साध्यं, साध्येन च यो व्याप्यते स हेतुरिति पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाfreरणत्वे सति पक्षीकृतशब्दत्वस्य अनित्यत्वरूपसाध्यासाधकत्वादवास्तवमपि अनित्यत्वसाध्यव्यापकत्वाद्धेतुत्वं मनसि निधाय पराचष्टे - न । तस्येति । तस्य पक्षीकृतेत्यादिसाध्यवत्त्वे सति पक्षीकृतशब्दत्वस्य, असाधारणानैकान्तिकत्वेन व्याप्यत्वानुपपद्यमानत्वयोर्विरहादित्यक्षरार्थः । भावार्थस्त्वयम् - सति सपक्षे सपक्षाप्रवेशी असाधारणानैकान्तिकोऽनध्यवसितो वा अनैकान्तिकभेदो वा । तत्र अस्य हेतोः सपक्षे घटादौ सत्यपि सपक्षा प्रवेशित्वेन असाधारणानैकान्तिकत्वात् यत्र पक्षीकृतेत्यादिसाध्यवत्त्वे सति पक्षीकृतशब्दत्वं तत्रानित्यत्वमिति व्याप्तेः कापि सपक्षे प्रसिद्धत्वाभावेन अनित्यत्वव्याप्यत्वाद्यनुपपत्तिरिति । विपक्षे बाधकमादिशति — अन्यथेति । अन्यथा असाधारणत्वेऽप्यनित्यत्वव्याप्यत्वाद्यभ्युपगमे तस्य पक्षीकृतेत्यादिसाध्यवत्त्वे सति पक्षीकृतशब्दत्वस्य नित्यत्वव्याप्यत्वाद्यपि आपद्येत, युक्तेरुभयत्रापि साम्यादिति । न केवलमस्य हेतोरसाधारण्यं, व्यर्थविशेपणतापीत्याह -- पक्षीकृतशब्दव्यतिरिक्तेति । पक्षीकृतशब्दात् यद्व्यतिरिक्तं विशेषणं तद्वैयर्थ्यात् । चकारो दोषान्तरसूचकः । एतावता पक्षीकृतशब्दत्वमेव हेतुरस्तु, व्यर्थमन्यद्विशेषणमिति भावः । उक्तमितरत्रातिदिशति — सेयमित्यादि । ननु भवद्भिः सामान्येन महाविद्यानिष्ठार्थान्तरता प्रत्य पादि, न प्रत्येकं महाविद्याविशेषनिष्ठेत्याशङ्कयाह – ये तु महाविद्येति । अन्यत्र प्रथान्तरे इत्यर्थः ।
१ साध्यव्याप्यत्वा' इति च पुस्तकपाठः ।
Aho! Shrutgyanam